________________
[पा० १. सू० २४-२५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १५३
इत्येताभ्यां सह 'ते मे' इत्येतावादेशौ यथासंख्यं वा भवत एकवाक्ये, उडसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते; धर्मो मे दीयते, धर्मो मह्य दीयते; शीलं ते स्वम्, शीलं तव स्वम् ; शीलं मे स्वम्, शीलं मम स्वम्; धर्मस्ते स्वम्, धर्मो मे स्वम् ; धर्मस्तव स्वम्, धर्मो मम स्वम् । पदादित्येव-तुभ्यं धर्मो दीयते, मह्य धर्मो 5 दीयते; तव शीलं स्वम्, मम शीलं स्वम् । एकवाक्य इत्येव-प्रोदनं पच, तव भविष्यति, मम भविष्यति; त्वां युवां युष्मान् वाऽतिक्रान्ताय-अतितुभ्यम् । 3-ङसेति किम् ? पटस्त्वया क्रियते । धर्मो मया क्रियते । कथं 'न मे श्रुता नापि च दृष्टपूर्वा' न मे-न मयेति ह्यत्रार्थः; असाधुरेवायम्; स्यादिप्रतिरूपकमव्ययं वा ।। २३ ।।
न्या० स०-डे-ङसेत्यादि । दृष्टपूर्वेति-पूर्व दृष्टा “नाम नाम्ना०" [३. १. १८.] इति सः, स्त्री चेत् ।। २३ ।।
10
अमा त्वा-मा। २. १. २४ ॥
पदात् परयोर्युष्मदस्मदोरमा-द्वितीयैकवचनेन सह 'त्वा मा' इत्येतावादेशौ यथासंख्यं वा भवत एकवाक्ये । धर्मस्त्वा रक्षतु, धर्मो मा रक्षतु; 15 धर्मस्त्वां रक्षतु, धर्मो मां रक्षतु । पदादित्येव-त्वामीक्षते, मामीक्षते । एकवाक्य इत्येव-अतित्वां पश्यतु, अतिमां पश्यतु ।। २४ ।।
न्या० स०--अमा त्वा-मा इति। अम् यद्यप्यनेकप्रकारोऽस्ति, तथाहि-एक: "अतः स्यमोऽम्" [ १. ४. ५७. ] इति, द्वितीयो “अव्ययीभावस्या०" [ ३. २. २. ] इति, तृतीय आख्यातविभक्त : 'अम्व् अम्' इति, तथापि युष्मदस्मद्भयामन्यस्यासंभवाद्20 द्वितीयैकवचनमेव गृह्यते इत्याह-प्रमा-द्वितीयकवचनेनेति ।। २४ ।।
असदिवा मन्त्र्य पूर्वम् ॥ २. १. २५ ॥
आमन्त्र्यते यत् तदामन्त्र्यम्, तद्वाचि पदं युष्मदस्मद्भयां पूर्वमसदिअविद्यमानमिव भवति, सति तस्मिन् यत् कार्यं तन्न भवति, असति यत् तद् भवतीत्यर्थः । श्रमणा ! युष्मान् रक्षतु धर्मः, श्रमणा ! अस्मान् रक्षतु25 धर्मः; श्रमणा ! युष्मभ्यं दीयते, श्रमणा ! अस्मभ्यं दीयते; श्रमणा !