________________
१५२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० २२-२३.]
ततः समसंख्या द्वितीया-चतुर्थी-षष्ठीरूपा विभक्तयो युगशब्देनोच्यन्त इति । धर्मो वो रक्षत्विति-अत्र पदादेशः पदवदिति 'वस्' इत्यस्य पदत्वे “सो रुः" [ २. १. ७२. ] इति रुत्वं बभूव । तथा "शसो नः" [ २. १. १०. ] "शेषे लुक्” [ २. १. ८. ] इत्यादीनि बाधित्वा नित्यत्वाद् निरवकाशत्वाच्च वस्नसावेव भवत इति । एकवाक्य इति–एकं च तद् वाक्यं चेति “पूर्वकालैक०" [ ३. १. ६०. ] इत्यनेन समासे एकस्य पूर्वनिपातः, ततो 5 विशेषणस्य व्यवच्छेदकत्वात् * सर्वं वाक्यं सावधारणं भवति * इति न्यायाच्च एकस्मिन् वाक्य एव भवतीति न तु पदे, अतियुष्मान् पश्यतीत्यादौ तु यथैकस्मिन् वाक्ये तथा एक विभक्तयपेक्षया एकस्मिन् पदेऽपि यूष्मदस्मदी स्त इति, तथा एकस्मिन्न व वाक्य इत्यवधारणाद् यदि पदं युष्मदस्मदी चैकस्मिन्न व वाक्ये भवतो न तु वाक्यान्तरे तदा वस्नसौ भवतः । सामर्थ्याभावादेवेति-परस्परव्यपेक्षालक्षणसम्बन्धाभावादेवेत्यर्थः । किमेकवाक्य-10 ग्रहरणेनेति-किं सविशेषणेन वाक्यग्रहणेन ? वाक्यग्रहणमेव पदव्यवच्छेदाय कत्तुं युक्त किमेकग्रहणेनेत्यर्थः । युक्तयुक्तादिति-युक्त न युष्मदस्मत्संबद्धेन पित्रादिना यत् युक्तमितिस्मेत्यादि तस्मादित्यर्थः । इति-स्मेत्यादि-अत्रेतिस्मेत्यादि पदं साक्षात् युष्मदादिकं नापेक्षते, किं तहि पित्रादिकमिति एकवाक्यग्रहणात् सामर्थ्याभावेऽपि एकवाक्ये पदात् परस्य युष्मदादेरादेशः सिद्धः । तथा 'युग्बहुत्वे' इत्यप्युक्त द्वितीया-चतुर्थी-षष्ठी बहुवचनानि 15 लब्धानि, विभक्तिग्रहणं तूत्तरार्थमिह च क्लिष्टतापरिहारार्थमिति ।। २१ ।।
द्वित्वे वाम्नौ ॥ २. १. २२ ॥
पदात् परयोयुष्मदस्मदोद्वित्वविषयया युग्विभक्त्या सह यथासंख्यं वाम्नावित्येतावादेशौ वा भवतः, तच्चेत् पदं युष्मदस्मदी चैकवाक्ये भवतः । धर्मो वां रक्षतु, धर्मो नौ रक्षतु; धर्मो युवां रक्षतु, धर्म आवां रक्षतु; शीलं 20. वां दीयते, शीलं नौ दीयते; शीलं युवाभ्यां दीयते, शीलमावाभ्यां दीयते; ज्ञानं वां स्वम्, ज्ञानं नौ स्वम् ; ज्ञानं युवयोः स्वम्, ज्ञानमावयोः स्वम् । युविभक्त्येत्येव-ग्रामे युष्मत्पुत्रः, नगरेऽस्मत्पुत्रः । पदादित्येव-युवां धर्मो रक्षतु, आवां धर्मो रक्षतु । एकवाक्य इत्येव-प्रोदनं पचत, युवयोर्भविष्यति, आवयोर्भविष्यति ।। २२ ।।
न्या० स०-द्वित्वे इत्यादि। द्वित्व इति भावप्रत्ययान्तेन संख्या निर्दिश्यते, संख्यायां च विभक्तिर्वर्त्तते न युष्मदस्मदी द्रव्यवृत्तित्वात् तयोरिति द्वित्व इति विभक्त रेव विशेषणमित्याह-द्वित्वविषययेति ।। २२ ।।
डे-सा ते-मे ॥ २. १. २३ ॥ 'ते-मे' इति लुप्तद्विवचनान्तं पदम्, पदात् परयोर्युष्मदस्मदो 'ऊँ ङस्'30
25