________________
[पा० १. सू० २१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १५१
पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे ॥२.१.२१॥
द्वितीया चतुर्थी षष्ठी च युग्विभक्तिः, तया बहुत्वविषयया सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं 'वस्नस्' इत्येतावादेशौ वा भवतः, तच्चेत् पदं युष्मदस्मदी चैकवाक्ये भवतः, अन्वादेशे नित्यं विधास्यमानत्वादिह विकल्पो लभ्यते, एवमुत्तरसूत्रत्रयेऽपि । धर्मो वो रक्षतु, धर्मो नो रक्षतु; धर्मो युष्मान् । रक्षतु, धर्मोऽस्मान् रक्षतु; तपो वो दीयते, तपो नो दीयते; तपो युष्मभ्यं दीयते, तपोऽस्मभ्यं दीयते; शीलं वः स्वम्, शीलं नः स्वम् ; शीलं युष्माकं स्वम्, शीलमस्माकं स्वम् । पदादिति किम् ? युष्मान् धर्मो रक्षतु, अस्मान् धर्मो रक्षतु । युग्विभक्त्येति किम् ? ज्ञाने यूयं तिष्ठत, शीले वयं स्थास्यामः; ज्ञाने युष्माभिः स्थितम्, शीलेऽस्माभिः स्थितम् ; ज्ञानं युष्मदागतम्, शील-10 मस्मदागतम् ; ज्ञानं युष्मासु तिष्ठति, शीलमस्मास्वायतते; ग्रामे युष्मत्पुत्रः, नगरेऽस्मत्पुत्रः; इति युष्मदुपाध्यायो ब्रूते, इत्यस्मदाचार्योऽनुशास्ति । एकवाक्य इति किम् ? एकस्मिन् पदे निमित्त-निमित्तिनो वे मा भूत-प्रतियुष्मान् पश्यति, अत्यस्मान् पश्यति; वाक्यान्तरे च मा भूत्-प्रोदनं पचत, युष्माकं भविष्यति; पटं वयत, अस्माकं भविष्यति । ननु च वाक्यान्तरस्थात्15 पदात् परयोर्युष्मदस्मदोः सामर्थ्याभावादेव वस्-नसादयो न भविष्यन्ति, किमेकवाक्यग्रहणेन ? नैवं शङ्कयम्-युक्तयुक्तादपि पदादसमर्थत्वात् न प्राप्नुवन्ति-इति स्म नः पिता कथयति, इति वः श्रेयसी ब्रवीमि, इति मे माताऽवोचत्, शालीनां ते प्रोदनं दास्यामि; अत्र हि युष्मदस्मदी पित्रादिभिर्युक्त न पित्रादियुक्त रिति-स्मादिभिरिति वस्नसादयो न स्युः, अतः पारम्पर्येणापि20 युक्तादेकवाक्यस्थात् पदात् परयोर्युष्मस्मदोर्वस्नसादयो भवन्त्वित्येकवाक्यग्रहणमर्थवत् । बहुत्व इति किम् ? धर्मो युवां रक्षतु, धर्मस्त्वां रक्षतु । स्याद्यधिकारे विभक्तिग्रहणं युकस्यादिवचननिवृत्त्यर्थम्, तेन ज्ञाने युवां तिष्ठतः, शीले आवां तिष्ठाव इत्यत्रोत्तरेण वाम्-नावादेशौ न भवतः ।। २१ ॥
न्या० स०-पदादित्यादि-पद्यते गम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् ।25 विभक्तया सह समानाधिकरणा) युनक्तीति युङ कर्तरि क्विप्, यद्वा योजनं युङ ० सममविषम संख्यास्थानं युग्ममिति यत् संख्यायते, तेन परिच्छिन्न वस्त्रमपि युगित्युच्यते,