________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० १ सू० १६ - २० . ]
सम्बन्ध्येव गृह्यत इति पारिशेष्यादिह चतुर्थीभ्यसो ग्रहणमित्याह – चतुर्थीबहुवचनस्येति ।। १८ ।
१५० ]
इसेश्चाद् ॥ २. १. १६ ॥
●
7
युष्मदस्मद्भ्यां परस्य स्वसम्बन्धिनोऽन्य सम्बन्धिनो वा ङसेवकारात् तत्सहचरितस्य भ्यसः स्थाने 'अद्' इत्ययमादेशो भवति । त्वद् मद्; त्वां 5 युवां युष्मान् वाऽतिक्रान्तात् प्रतित्वद्, प्रतिमद्; प्रतियुवद्, प्रत्यावद् ; प्रतियुष्मद्, प्रत्यस्मद् । भ्यस् - युष्मद्, अस्मद् ; त्वां युवां युष्मान् वाऽतिक्रान्तेभ्यः - अतित्वद्, अतिमद्; अतियुवद्, अत्यावद्; प्रतियुष्मद्, प्रत्यस्मद् । पञ्चमीभ्यसो ग्रहणाच्चतुर्थीभ्यसो न भवति - युष्मभ्यम्, अस्मभ्यम् ।। १६ ।।
न्या० स०--ङसेरित्यादि - चकारेण भ्यसोऽनुकर्षणेऽपि भ्यसो ङसेश्चैकवचनानन्त - 10 निर्देशेन द्विवचनानन्तनिर्दिष्टाभ्यां युष्मदस्मद्भ्यां सह वैषम्याद् यथासंख्याभाव इति ॥ १६ ॥
आम आकम् ॥ २.१.२० ॥
'युष्मद् श्रस्मद्' इत्येताभ्यां परस्य स्वसम्बन्धिनोऽन्यसम्बन्धिनो वाऽऽमः स्थाने 'प्रकम्' इत्यादेशो भवति । युष्माकम् अस्माकम् ; प्रिययुष्माकम्, 15 प्रियास्माकम् ; त्वां युवां युष्मान् वाऽतिक्रान्तानाम् - अतित्वाकम्, प्रतिमाकम् ; अतियुवाकम्, अत्यावाकम्; प्रतियुष्माकम् प्रत्यस्माकम् ; आकमित्याकारो ण्यन्तार्थम्–युष्मानाचक्षाणानां गौ क्विपि - युष्माकम् अस्माकम् ; । केचित् तु तत्सम्बन्धिन एवाऽऽमः आकमादेशमिच्छन्ति, तथाऽऽम्प्रत्यये दकारस्य यत्वमपीच्छन्ति, तन्मते - प्रिया यूयं येषां तेषां प्रिययुष्मयाम्, प्रियास्मयाम् ; 20 एवम् - प्रतियुष्मयाम्, अत्यस्मयाम् ।। २० ।।
"
न्या० स०-- श्राम इत्यादि । श्रामः कमिति कृते " युष्मदस्मदो ” [२. १. ६.] इत्यात्वे कृते युष्माकमित्यादि सिध्यति, किमाकारकरणे नेत्याह - आकमित्यादि । केचित् त्विति - पाणिनिसूत्रानुसारिणः, ते हि "साम आकम्" [ पा० ७. १. ३३. ] इति पठन्तः कृतसामादेशस्याम प्राकमिच्छन्ति, स च " अवर्णस्याम:" [ १.४. १५. ] इति तत्सम्बन्धिन 25 एवेति ।। २० ।।