________________
[ पा० १ सू० १७-१८.]
श्री सिद्ध हेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४६
न्या० स० - अमौ म इति प्रश्च प्रश्च श्रवौ “स्यादावसंख्येयः" इत्येकशेषः, ततोऽम् च प्रवौ च श्रमौ तस्य 'अमौ' लुप्तषष्ठ्येकवचनान्तं पदम्, एकशेषाभावे तु प्रमा साहचर्याद् द्वितीयासत्कस्यैव ग्रहणं स्यात् । ननु अम्ग्रहणं किमर्थम् ? यावता त्वामिति निष्पाद्यम्, तच्च युष्मदोऽमि निमित्ते त्वादेशे " शेषे लुक्” [ २.१.८. ] इति दस्य लुकि "समानादमोऽतः " [ १. ४. ४६. ] इत्यमोऽस्य लुकि " युष्मदस्मदो: " [२. १. ६. ] 5 इत्यन्तस्यात्वे च सिद्धम्, नैवम् - अन्तरङ्ग ेऽन्तस्यात्वे कार्ये बहिरङ्गोऽकारस्य लुगसिद्ध इति ।। १६ ।।
शसो नः ॥ २. १. १७ ॥
युष्मदस्मद्भयां परस्य तत्सम्बन्धिनोऽन्यसम्बन्धिनो वा शसः स्थाने 'न' इत्ययमादेशो भवति, अकार उच्चारणार्थः । युष्मान् अस्मान् ; प्रिययुष्मान्, 10 प्रियास्मान्; प्रियस्त्वं येषां तान् प्रियत्वान्, प्रियमान्; प्रियौ युवां येषां तान् प्रिययुवान्, प्रियावान् ।। १७ ।।
"1
८.
न्या० स० -- शसो न इति । ननु युष्मानित्यादौ द्वयं प्राप्नोति- " शेषे० ' [ २.१. ] इत्यनेनान्तलोपोऽनेन नकारश्च तत्र कृताकृतप्रसङ्गित्वेन ० नकारस्य नित्यत्वाल्लोपस्य च कृते नकारे शेषत्वाभावादप्रसङ्गित्वेनानित्यत्वात् पूर्वं नकार एव 15 भवतीति यद्येवं किमनेन ? " शसोता ० " [१. ४. ४६ ] इत्यनेनैव सिद्धत्वात् नैवम्लिङ्ग युष्मदस्मदी इति पुंस्त्वाभावान्नकारो न सिध्यतीति वचनम् बहुव्रीह्यादावभ्युपगमे वा लिङ्गस्य स्त्री- नपुंसकार्थम् - प्रिययुष्मान् ब्राह्मणीः, प्रिययुष्मान् कुलानीत्यादि ।। १७ ।।
अभ्यं भ्यसः ।। २.१.१८ ॥
युष्मदस्मद्भ्यां परस्य स्वसम्बन्धिनोऽन्यसम्बन्धिनो वा भ्यसश्चतुर्थीबहुवचनस्य स्थानेऽभ्यमादेशो भवति । युष्मभ्यम्, अस्मभ्यं दीयते; प्रिययुष्मभ्यम् प्रियास्मभ्यम् ; त्वामतिक्रान्तेभ्यः - प्रतित्वभ्यम्, प्रतिमभ्यम् ; युवामतिक्रान्तेभ्यः - प्रतियुवभ्यम्, अत्यावभ्यम् । अकारादिकरणमात्वबाधनार्थम् ।। १८ ।
20
25
न्या० स० -- श्रभ्यमित्यादि । कार्यिणः प्रथमं निर्देशे प्राप्ते कार्यस्य प्रथममुपादानं प्रत्यासत्तिसूचनार्थम्, पाठापेक्षया च चतुर्थ्येव प्रत्यासन्न ेति तस्या एवादेशः, यद्वा “ङसेश्वाद्” [ २. १. १ε. ] इत्यत्र चकारो भ्यसोऽनुकर्षणार्थ:, स च ङसिसाहचर्यात् पञ्चमी