________________
१४८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १४-१६.]
।
द्वित्वयोर्युष्मदोवर्तमानत्वात् “त्व-मौ प्रत्ययोत्तरपदे." [ २. १. ११. ] इति “मन्तस्य युवा-ऽऽवौ०" [ २. १. १. ] इति च त्व-माद्यादेशानन्यत्र सावकाशान् बाधित्वा यूयं वयमित्यत्र सावकाशौ यूयं वयमादेशौ परत्वादुभयप्राप्तौ सत्यां तावेव भवतः । यूयकमित्यादौ कुत्सिताद्यर्थे । “युष्मदस्मदोऽसोभादि" [ ७. ३. ३०. ] इत्यक्, एवम्उत्तरत्रापि ॥ १३ ॥
तुभ्यं मह्य त्या ॥२. १. १४ ॥
युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा डेप्रत्ययेन सह यथासंख्यं 'तुभ्यं मह्यम्' इत्येतावादेशौ भवतः, प्राक् चाकः । तुभ्यम्, मह्यम् ; परमतुभ्यम्, परममह्यम्, प्रियस्त्वम् प्रियौ युवां प्रिया यूयं वा यस्य तस्मैप्रियतुभ्यम्, प्रियमह्यम्; अतिक्रान्तस्त्वां युवां युष्मान् वा तस्मै अतितुभ्यम्,10 अतिमह्यम् । ड्येति किम् ? तुभ्यं हितं त्वद्धितम्, मद्धितम् । प्राक् चाक इत्येव ? तुभ्यकम् मह्यकम् ।। १४ ।।
तव मम सा ॥ २. १. १५ ॥
__ युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा ङस्प्रत्ययेन सह यथासंख्यं 'तव मम' इत्येतावादेशौ भवतः, प्राक् चाकः । तव, मम; प्रियस्त्वं प्रियौ15 युवां प्रिया यूयं वा यस्य तस्य-प्रियतव, प्रियमम; अतिक्रान्तस्त्वां युवां युष्मान् वा तस्य-अतितव, अतिमम। डसेति किम् ? तव प्रियस्त्वत्प्रियः, मत्प्रियः । प्राक् चाक इत्येव ? तवक, ममक ।। १५ ॥
न्या० स०-तव ममेत्यादि। कथं तवता, ममता; तवायितम्, ममायितम् ? सत्यम् –स्याद्यन्तप्रतिरूपकाण्यव्ययान्येतानि, ततः शब्दान्तरत्वात् सिद्धम् ।। १५ ।। 20
अमौ मः ॥ २. १. १६ ॥
युष्मदस्मद्भ्यां परयोस्तत्सम्बन्धिनोरन्यसम्बन्धिनोर्वा 'अम् औ' इत्येतयोर्म इत्ययमादेशो भवति, अकार उच्चारणार्थः । त्वाम्, माम् ; अतित्वाम्, अतिमाम् ; युवाम्, आवाम् ; अतियुवाम्, अत्यावां तिष्ठतः पश्य वा ।। १६ ।।
25