________________
१४६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १२.]
मादेशाविच्छन्ति, तन्मते-अधित्वत्, अधिमत् । मन्तस्येत्येव-त्वकं पिताऽस्य त्वकत्पितृकः, अत्राक्सहितस्य मा भूत् । प्रत्ययग्रहणेनैव सिद्धे स्यादावित्युत्तरार्थमनुवर्तते ।। ११ ।।
___ न्या० स०-त्व-मौ० इत्यादि । त्वदयतीति–अत्र नित्यत्वादन्त्यस्वरादिलोपात् प्रागेव त्व-मादेशौ, पश्चादपि अन्त्यस्वरादिलोपो न * लोपात् स्वरादेशः इति न्यायात् 5 "लुगस्ये." [२. १. ११३.] इत्येव प्रवर्त्तते, तस्मिन्नपि कृते न भवति "नकस्वरस्य" [७. ४. ४४.] इति निषेधात्; "णिति" [४. ३. ५०.] इत्यादिना वृद्धिरपि न अधातुत्वात् । कश्चित् त्विति-उत्पलः । शब्दान्तरप्रवृत्त्या द्वयोरप्यनित्यत्वादन्यत्र सावकाशत्वा परत्वादन्त्यस्वरादिलोप इत्यर्थः । अकारस्य वृद्धाविति-अतो "णिति" [४. ३. ५०.] इत्यनेन सूत्रेण। ननु प्रत्ययोत्तरपदग्रहणं किमर्थम् ? स्यादावित्येव 10 सिद्धत्वात्, न च परत्वात् “ऐकायें" [३. २. ८.] इति स्यादेलु पि प्रत्ययलोप०* इति न्यायस्य “लुप्यम्वृल्लेनत्" [७. ४. ११२. ] इति निषेधात् रयादेरभाव इति वाच्यम्, यत “ऐकायें" [ ३. २. ८. ] इति लुबुच्यते, ऐकायं च प्रकृतिप्रत्ययौ पूर्वोत्तरपदे चाश्रित्य भवतीति तस्य बहिरङ्गत्वात तदाश्रया लुबपि बहिरङ्गा, विभक्तिमात्रमाश्रित्य विधानात् त्व-मादेशयोरन्तरङ्गत्वम्, ततः प्रसिद्ध बहिरङ्गमन्तरङ्ग इति 15 न्यायान्नित्यादपि अन्तरङ्गस्य बलीयस्त्वात् त्वमादेशयोः कर्तव्ययोः लुपोऽसिद्धत्वात् ताभ्यामेव पूर्व प्रवत्तितव्यं ततो लुबिति न किञ्चिदनिष्टमित्याह-अन्तरङ्गत्वादिति । ननु यदा स्यादिग्रहणमेव क्रियते न प्रत्ययोत्तरपदग्रहणं तदा त्वदीयः, त्वत्पुत्रः' इत्यादौ प्रागेव परत्वात् ङसा सह तव-ममादेशौ प्राप्नुतः, तत्कथमन्तरङ्गत्वात् स्यादिद्वारेणैव सिध्यतोति ? सत्यम्-यौ त्व-मौ भवतस्तावल्पाश्रितो, यतः प्रकृतिमेवाश्रयत:, यौ तु20 तव-ममौ तौ प्रकृतेः प्रत्ययस्य च स्थाने भवत इति बह्वाश्रितावित्यन्तरङ्गत्वात् त्व-मौ प्राप्नुत इति स्यादिद्वारेणव सिध्यतोति; तव-ममादेशे तु कर्तव्ये एकस्थानित्वेनान्तरङ्गत्वात् परत्वाच्च डसो लुबेवेति । एके त्विति चन्द्रादयः ।। ११ ।।
त्वमहं सिना पाक चाकः ॥ २. १. १२ ॥
युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा सिना सह यथासंख्यं25 'त्वम् अहम्' इत्येतावादेशौ भवतः, तौ चाक्प्रत्ययप्रसङ्गेऽकः प्रागेव भवतः । त्वम्, अहम्; अतिक्रान्तस्त्वाम्-अतित्वम्. अत्यहम् ; अतिक्रान्तो युवाम्अतित्वम्, अत्यहम् ; अतिक्रान्तो युष्मान्-अतित्वम्, अत्यहम् ; प्रियस्त्वं प्रियौ युवां प्रिया यूयं वा यस्य स प्रियत्वम्, प्रियाहम्; एषु परत्वात् त्व-मौ युवा-ऽऽवौ च बाधित्वा त्वमहमावेव भवतः । सिनेति किम् ? युष्माभिः,30 अस्माभिः; सिलुपि च "लुप्यय्वृल्लेनत्" [७. २. ११२.] इति निषेधान्न