________________
[ पा० १. सू० ११.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४५
बलोयः इति न्यायात् युवा ऽऽवादय एवादेशाः प्राप्स्यन्ति न त्वमहमादयः, सत्यम्— परत्वाद - विशेषविहितत्वेन प्रकृष्टत्वादित्यर्थः ।। १० ।।
त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ॥ २. १. ११ ॥
एकत्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारान्तस्यावयवस्य स्वसम्बन्धिन्यन्य सम्बन्धिनि वा स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोर्यथासंख्यं 'त्व 5 म' इत्येतावादेशौ भवतः । त्वाम् माम् ; त्वया मया त्वद् मद्; त्वयि, मयि प्रतिक्रान्तौ त्वाम् - प्रतित्वाम् प्रतिमां तिष्ठतः ; प्रतिक्रान्तं त्वां मां वा - प्रतित्वाम्, प्रतिमां पश्य; प्रतित्वान्, प्रतिमान् प्रतित्वया, प्रतिमया; अतित्वाभ्याम्, प्रतिमाभ्याम् ; अतित्वाभिः प्रतिमाभिः ; अतित्वाभ्याम्, प्रतिमाभ्यां देहि ; अतित्वभ्यम्, प्रतिमभ्यम्; प्रतित्वत्, प्रतिमत्; प्रति 10 त्वाभ्याम्, अतिमाभ्यामागतम् ; अतित्वद्, अतिमद्; अतित्वयोः, प्रतिमयोः स्वम्; अतित्वाकम्, प्रतिमाकम् ; अतित्वयि प्रतिमयि ; अतित्वयोः, अतिमयोः ; अतित्वासु प्रतिमासु । सि जस् - ङ ङस्सु पुनः परत्वात् त्वमहमादयो भवन्ति । प्रत्ययोत्तरपदयोः खल्वपि - तवायं - त्वदीयः, मदीयः; त्वन्मयम्, मन्मयम् ; त्वामिच्छति - [ मामिच्छति वा - ] त्वद्यति, मद्यति ; त्वमिवाचरति - 15 त्वद्यते, मद्यते; त्वया कृतं मया कृतं - त्वत्कृतम्, मत्कृतम् ; त्वत्पुत्रः, मत्पुत्रः; त्वद्धितम् मद्धितम् ; त्वत्प्रधानः, मत्प्रधानः । 'त्वामाचष्टे - [मामाचष्टे
वा
[ - ] त्वदयति, मदयति' इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात् प्रागेव त्वमादेशौ । कश्चित् तु 'पूर्वमन्त्यस्वरादिलोपे त्व-मादेशे प्रकारस्य वृद्धौ प्वागमे' - त्वापयति, मापयति ; क्विपि तु - ' त्वाप्, माप्' इत्याह । एकस्मिन्निति 20 किम् ? युष्माकम्, अस्माकम् । एकत्वेन युष्मदस्मदोविशेणादिह न भवतिप्रतिक्रान्तं युष्मान् - [ अस्मान् वा - ] प्रतियुष्माम्, प्रत्यस्माम्; प्रतियुष्मया, अत्यस्मया; प्रतियुष्मद्, प्रत्यस्मद्; प्रतियुष्मयि प्रत्यस्मयि । प्रत्ययोत्तरपदे चेति किम् ? त्वय्यधि, अधियुष्मद्, प्रध्यस्मद् । अन्तरङ्गत्वात् स्यादिद्वारेणैव त्व-मादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं बहिरङ्गाऽपि लुप् अन्तरङ्गान् विधीन् 25 बाधते इति न्यायज्ञापनार्थम्, तेन - 'यद्, तद्' इत्यादावन्तरङ्गमपि त्यदाद्यत्वादि न भवति । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेऽर्थे वर्तमानयोस्त्व