________________
[पा० १. सू० ६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १४३
भविष्यति, किं लिङ्गानुशासने तयोर्वर्जनेन ? सत्यम्-न्यायानां स्थविरयष्टि०* न्यायेन प्रवृत्तेविश्वासः कर्तुमशक्यः ।।८।।
मोर्वा ॥२. १. ६॥
'युष्मद् अस्मद्' इत्येतयोर्मकारान्तयोः स्वसम्बन्धिन्यन्यसम्बन्धिनि वा शेषे स्यादौ परे मकारस्य लुग् वा भवति । युवां युष्मान् वा आवामस्मान् 5 वाऽऽचष्टे-णिचि क्विपि तल्लुकि च-'युष्म्, अस्म्' इति मान्तत्वम् । युष्मभ्यम्, अस्मभ्यम्; युषभ्यम्, असभ्यम्; युष्मद्, युषद्; अस्मद्, असद्; युष्माकम्, युषाकम्; अस्माकम्, असाकम् । शेष इत्येव-युषान्, असान्; युषाभिः, असाभिः; युषासु, असासु; एषु पूर्वेण मकारस्याऽऽत्वम् । टाङयोसि नित्यत्वात् त्व-मादिकार्येभ्यः प्रथममेव पूर्वेण मकारस्य यत्वे-युष्या, अस्या; 10 युष्यि, अस्यि; युष्योः, अस्योः । अथ शब्दान्तरप्राप्त्या यत्वमप्यनित्यमित्याश्रीयते तदा परत्वात् पूर्वं त्व-माद्यादेशे अकारस्य यत्वे-व्या, म्या; व्यि, म्यि; युव्योः, आव्योः । अथ सकृद्गते स्पर्द्ध यद्बाधितं तद्बाधितमेव इत्याश्रीयते तदा यत्वाभावे-त्वेन, मेन; युवयोः, आवयोः; त्वे, मे; अत्रासर्वादिसम्बन्धित्वाद् : स्मिन्नादेशो न भवति; अथ क्विबर्थं प्रकृतिरेवाह*15 इति सर्वादिसम्बन्धित्वं तदा भवत्येव स्मिन्नादेशः; सि-जस्-डे-डस्प्रत्ययेषु तु परत्वात् त्वमहमादय एव आदेशा भवन्ति-त्वम्, अहम् ; यूयम्, वयम् ; तुभ्यम्, मह्यम्; तव, मम । एके तु मन्तयोर्युष्मदस्मदोरादेशान् नेच्छन्ति ।। ४ ।।
न्या० स०--मोर्वेति । ननु 'युवामाचष्टे' इति वाक्ये णिचि क्विपि स्यादौ20 युवादेशः कथं न भवति ? सत्यम्-यदा युष्मदस्मदी द्वित्वे तदा स्यादिर्न, यदा तु स्यादिस्तदा न द्वित्वे इति न युवादेशः । शब्दान्तरेति-प्राग् मकारस्य पश्चाद् अकारस्य यप्राप्तिः, अथवा पूर्वं युष्मिति प्रकृतेः पश्चात् त्वेति प्रकृतेः । अत्रासर्वादिसम्बन्धित्वादिति-युष्मदस्मदी त्वमहंवाचके सर्वादिगणमध्ये दृश्येते, अत्र तु त्वां मां वक्ति यस्तद्वाचके इति न सर्वादिनी। अथ क्विबर्थमिति-क्विबन्तयोयुष्मदस्मदोर्योऽर्थस्तमर्थं क्विप्सहिता युष्म-25 दस्मद्रूपा प्रकृतिरेवाह, नहि प्रकृति विना क्विप् भवति । स्मिन्नादेश इति-तेन त्वस्मिन्, मस्मिन्, सन्निपात०* न्यायस्याऽनित्यत्वे-स्वास्मिन्, मास्मिन्, इत्यपि। सि-जसितिएतेन प्रक्रियागौरवं निरस्तं भवति, अन्यथा अनेन मकारलोपेऽपि सिप्रत्ययादिना सह त्वमहमाद्यादेशे सर्वेऽपि प्रयोगाः सिध्यन्ति ।। ६ ।।