________________
१४० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४-५.]
अतिजरशब्दात् प्रवृत्तेनाप्प्रत्ययेन जराशब्दो व्यवधीयते । जारः, जारेयः, जराया अयम् "तस्येदम्" [ ६. ३. १०४. ] इत्यण , जराया अपत्यम् “द्विस्वरादनद्या०" [ ६. १.७१.] इति एयण ।। ३॥
अपोऽद्भे
॥ २. १. ४ ॥
'अप्' इत्येतस्य स्वसम्बधिन्यन्यसम्बन्धिनि वा भकारादौ स्यादौ परतः 5 'अद्' इत्ययमादेशो भवति । अद्भिः, अद्भयः, स्वद्भयाम्, अत्यद्भयाम् । भ इति किम् ? आपस्तिष्ठन्ति, अपः पश्य, अपाम्, अप्सु । स्यादावित्येवअब्भक्षः ॥ ४ ॥
न्या० स०-अपोऽद् मे इति । स्वद्भ्याम्-शोभना अतिशयिता वा आपो ययोरिति विग्रहे 'प्रजास्वतः प्राकटात" [७.३.७२. ] इति समासान्तप्रतिषेधे भ्यामि10 सत्यपि तदन्तग्रहणे निर्दिश्यमानस्यादेशा भवन्ति इत्यप एवादेशः । अब्भक्ष इति"शीलि-कामि०" [ ६. १. ७३. ] इति णः ।। ४ ।।
आ रायो व्य ञ्जने ॥ २. १. ५ ॥
स्वसम्बन्धिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे रैशब्दस्याऽऽकारोऽन्तादेशो भवति । राः, हे राः !, अतिराः, राभ्याम् ३, राभिः,15 राभ्यः ३, रासु; एकदेशविकृतस्यानन्यत्वाद् अतिराभ्यां कुलाभ्याम्, अतिरासु कुलेषु । व्यञ्जन इति किम् ? रायौ, रायः । स्यादावित्येवरैसूत्रम्, रैभयम् । स्भीत्येव सिद्धे व्यञ्जनग्रहणमुत्तरार्थम् ।। ५ ।।
न्या० स०--आ रायो इत्यादि। आकारस्यैकवर्णत्वात् “षष्ठ्या अन्त्यस्य" [ ७. ४. १०६. ] इति रैशब्दान्तस्यैव भवति । स्भीत्येव सिद्ध इति-आमि तु रायमति-20 क्रान्तानि यानि तेषां "क्लीबे" [ २. ४. ६७. ] इत्यनेन ह्रस्वत्वे सति * सन्निपातलक्षण०% इत्यादिन्यायाद् इकाररूपं ह्रस्वमाश्रित्य समुत्पन्नो नाम् तद्विघाताय नोत्सहते, तहि "दी? नामि०" [ १. ४. ४७. ] इत्यादिना दीर्घोऽपि न प्राप्नोति, सत्यम्-तदा अनित्यत्वादस्य न्यायस्य भवत्येव दीर्घः, यतो न्याया हि स्थविरयष्टिन्यायेन प्रवर्तन्ते । उत्तरार्थमिति-यद्येवं तत्रैव क्रियताम्, किमत्रानेन सन्देहास्पदेन ? नैवम्-केचित् 25
सन्निपात०% न्यायमनित्यमाश्रित्य 'अतिराणाम्' इत्याकारमपीच्छन्ति, तन्मतसंग्रहार्थं व्यवनग्रहणमिहार्थमपि, तेन स्वमतेऽपि सम्मतम् ।। ५ ।।