________________
[पा० १ सू० ३. ]
प्रियतिस्रः, प्रियचतस्रस्तिष्ठन्ति पश्य वेति नित्यमेव रत्वम् ।। २ ॥
न्या० स० - - ऋतो र इत्यादि । अनीति नकारः प्रत्ययरूप आगमरूपो वा । समानदीर्घत्वेति- "शसोडता ० " [ १. ४. ४६ ] इति ङौं च" [ १.४. ३६ ] इति " ऋतो डुर्” [ १. ४. ३७. ] इति प्राप्तानाम् । तदपवाद इति व्यञ्जनादौ स्यादौ पूर्वयोगः सावकाश:, स्वरादौ तु प्रयमेव स्यात् । अन्ये तु इति शाकटायनादयः । अपरे तु इति - 5 विश्रान्तविद्याधरादयः ।। २ ।।
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १३६
जराया जरस् वा ।। २. १. ३ ।।
जराशब्दस्य स्वसम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ परतो 'जरस्' इत्ययमादेशो वा भवति । जरसौ, जरसः, जरसम्, जरसौ, जरसः, जरसा, जरसे, जरसः, जरसः, जरसोः, जरसाम्, जरसि, जरसोः; पक्षे - 10 जरे, जराः, जराम्, जरे, जरा:; जरया, जरायै, जरायाः २, जरयोः २, जराणाम्, जरायाम्; एकदेशविकृतस्यानन्यत्वात् अतिजरसौ, अतिजरौ २; अतिजरसः, अतिजराः; अतिजरसम्, अतिजरम् ; अतिजरसः, अतिजरान्; अतिजरसा, अतिजरेण; अतिजरसैः, अतिजरैः; अतिजरसे, अतिजराय;
अतिजरसः, अतिजरात्; अतिजरसः, अतिजरस्य; अतिजरसोः,15 प्रतिजरयोः २ प्रतिजरसाम्, प्रतिजराणाम्; अतिजरसि, अतिजरे; नपुंसके स्यमोरम्भावे- अतिजरसम्, अतिजरम्, “जरसो वा " [१. ४. ६०.] इति लुपि - प्रतिजर: ; अतिजरसी, प्रतिजरे तिष्ठतः पश्य वा; शौ परत्वाज्जरसादेशस्ततो नाऽऽगमः - अतिजरांसि, अतिजराणि तिष्ठन्ति पश्य वा । स्त्रियां तु विभक्त रापा व्यवधानान्न भवति । स्वर इत्येव - जरा, जराभ्याम्,20 जराभिः । स्यादावित्येव - जराग्रम्, जार:, जारेयः ।। ३ ।।
न्या० स० -- जराया इत्यादि । 'जरसा, कुण्डानि' इत्यत्र द्वयोः सावकाशत्वात् परत्वाज्जरसादेश एवेत्याह- शौ परत्वादिति । ननु पूर्वमपि नागमे कृते सनागमस्यादेशे पुनधु' डन्तलक्षणनागमे च रूपस्य सिद्धत्वात् किं परत्वचिन्तयेति ? उच्यते यदि पूर्वं नागमः स्यात् स च पूर्वभक्तः प्रकृतिमेवानन्यवद्विदध्यात्, अवयवस्य तु जरशब्दस्य विभक्तौ 25 जरसादेशो विधीयमानो न प्राप्नोति; श्रथवा पूर्वं नागमस्ततः प्रागमोऽनुपघाती इत्यनेन न्यायेन जरसादेशे कृते सकारात् परस्य नागमस्य श्रवणं स्यात्, यथा- 'प्रतिजरस्न्' इति तस्मात् परत्वाज्जरसादेश इति । स्त्रियां त्विति - 'अतिजरया' इत्यत्र हि