________________
१३८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २.]
कोऽर्थः ? प्रकृष्टत्वादित्यर्थः, प्रकृष्टत्वं च *मागमात् सर्वादेश: इति न्यायात्; । किञ्च, "ऋतो र: स्वरेऽनि" [२. १. २.] इत्यत्रानीति वचनमनर्थकं स्यात, स्वरादौ पूर्वं नकारे तिस्राद्यादेशाभावाद् रत्वप्रसङ्ग एव नास्तीति अनीति वचनात पूर्व नागमादेस्तिस्राद्यादेश इति प्रियतिस कुलमिति । "नामिनो लुग् वा” [ १. ४. ६१. ] इत्यत्र चतुर्शब्दस्यापि लुगविकल्पमिच्छन्त्येके, तन्मते-प्रियचतसृ कुलम्, प्रियचतुर्वा 5 कुलमिति। प्रियत्रिरित्यादि-स्त्रीलिङ्गविवक्षायामपि समासाद् ङीप्रत्यये प्रियव्येव, "शेषाद् वा" [ ८. ३. १७५. ] इति कचि प्रियत्रिकैव, आदेशो न भवति, प्रथमं ङीप्रत्यये पश्चाद् बहुव्रीहिसमासे "ऋन्नित्यदितः" [७. ३. १७१. ] इति कचेव, यदा तु केवलात् त्रिशब्दाद् ङीस्तदा तू एकदेशविकृतत्वेनादेशो भवति । कथं तिसका नामेति-त्रिशब्दात् संज्ञायां के प्रापि बहुवचने च स्यादेर्व्यवधानात् कथं तिसृभाव इति प्रष्टुः संशयः ।10 समाधत्ते-स्त्रीलिङ्गो बहुवचनविषयः संज्ञाशब्दोऽयमिति-तस्यन्ति परबलान्यासु "निष्कतुरुष्क०" [ उणा० २६. ] इति निपात्यते ॥ १ ॥
तो : स्वरेशनि ॥ २. १. २॥ तिसृ-चतसृसम्बन्धिन ऋकारस्य स्थाने तत्सम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ परतो रादेशो भवति, अनि-नकारविषयादन्यत्र; समान-15 दीर्घत्वा-ऽर्द्धरामपवादः । तिस्रः, चतस्रस्तिष्ठन्ति पश्य वा; प्रियतिस्रो, प्रियचतस्रौ; प्रियतिस्रम्, प्रियचतस्रम्; प्रियतिस्रः प्रियचतस्र आगतं स्वं वा; प्रियतिसि प्रियचतस्रि निधेहि । स्वर इति किम् ? तिसृभिः, चतसृभिः । अनीति किम् ? प्रियतिसृणी, प्रियचतसृणी; प्रियतिसृ.णि, प्रियचतसृ.णि; तिसृणाम्, चतसृणाम् । ऋत इति तिसृ-चतस्रोः प्रतिपत्त्यर्थम्, इतरथा हि20 तदपवादस्त्रिचतुरोरेवायमादेशो विज्ञायेत । अन्ये तूपसर्जनयोस्तिसृ-चतसृशब्दयोडौं घुटि चानि स्वरादौ रत्वविकल्पमिच्छन्ति, तन्मते-प्रियति त्रि प्रियतिसरि; प्रियचतस्रि, प्रियचतसरि; प्रियतिस्रौ, प्रियतिसरौ; प्रियचतस्रौ, प्रियचतसरौ; प्रियतिस्रः, प्रियतिसरः; प्रियचतस्रः, प्रियचतसरः; प्रियतिस्रम्, प्रियतिसरम्; प्रियचतस्रम्, प्रियचतसरम्; प्रधानस्य तु नित्यमेव 25 रत्वम्-तिस्रः, परमतिस्रः; चतस्रः, परमचतस्रः । अपरे त्वनि स्वरे सर्वत्र विकल्पं जश्-शसोस्तु नित्यं मन्यन्ते, तन्मते-प्रियतिस्रो, प्रियतिसरौ; प्रियचतस्रौ, प्रियचतसरौ; प्रियतिस्रः, प्रियतिसुः, प्रियचतस्रः, प्रियचतसुः आगतं स्वं वा, इत्यादि । जस्-शसोस्तु-तिस्रः, चतस्रः, परमतिस्रः, परमचतस्रः,