________________
द्वितीयोऽध्यायः
अथ प्रथमः पादः
त्रि- चतुरस्तिसृ- चतसृ स्यादौ ॥ २.१.१ ॥
स्त्रियामित्यनुवर्तते, 'त्रि चतुर्' इत्येतयोः स्त्रीलिङ्ग े वर्तमानयोस्तत्संबन्धिन्यन्यसंबन्धिनि वा स्यादौ विभक्तौ 'तिसृ चतसृ' इत्येतावादेशौ यथासंख्यं 5 भवतः । तिस्रस्तिष्ठन्ति, तिस्रः पश्य चतस्रस्तिष्ठन्ति, चतस्रः पश्य ; तिसृभिः, चतसृभिः; तिसृभ्यः, चतसृभ्यः; तिसृणाम्, चतसृणाम्; तिसृषु, चतसृषु । प्रियास्तिस्रोऽस्येति प्रियतिसा पुरुषः, प्रियतिस्रौ, प्रियतिस्रः ; एवम् - प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः; प्रियास्तिस्रोऽस्य कुलस्य प्रियतिसृ कुलम्, प्रियतिसृणी, प्रियतिसृणि; एवम् - प्रियचतसृणी, प्रियचतसृ. णि; 10 एषु विभक्त्याश्रयत्वेन बहिरङ्गलक्षणस्य तिसृ- चतस्रादेशस्यासिद्धत्वात् समासान्तः कज् न भवति, परत्वाच्च तिस्रादेशे कृते पश्चान्नागमः । स्यादाविति किम् ? प्रियत्रिकः, प्रियचतुष्कः, तिसृणां प्रियस्त्रिप्रियः, चतुष्प्रियः प्रियत्रि कुलम्, प्रियचतुष्कुलम् । कथं तर्हि प्रियतिसृ कुलम् ? "नामिनो लुग् वा” [१. ४. ६१.] इति लुकि सति स्थानिवद्भावाद् भविष्यति, यथा - हे त्रपो ! 115 स्त्रियामित्येव-त्रयः, चत्वारः; त्रीणि, चत्वारि ; प्रियास्त्रयः त्रीणि वा यस्याः सा प्रियत्रिः, प्रियत्री, प्रियत्रयः; एवम् - प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः; अत्र त्रिचतुरावस्त्रियाम् समास एव तु स्त्रियामित्यादेशौ न भवतः । कथं तिसृका नाम ग्रामः ? संज्ञाशब्दोऽयम् ।। १ ।।
न्या० स०--- -- त्रि- चतुर इति । स्त्रियामित्यनुवर्तत इति - पूर्वसूत्रादिति शेषः, तच्च 20 श्रुतत्वात् 'त्रि- चतुरः' इत्यस्यैव विशेषणम् । 'तिस्रः' इत्यादौ विधानसामर्थ्यान्न षत्वम् । परत्वादिति - ननु कृताकृतप्रसङ्गित्वेन नित्यत्वात् प्रादेशादागमः इति च न्यायात् पूर्वं नागम एव प्राप्नोति नैवम् - शब्दान्तरप्राप्त्या नागमोऽप्यनित्य:, यद्वा परत्वादिति