________________
बृहद्वृत्ति - लघुन्याससंवलिते
करणात्, स्त्रियां वर्तमानस्य कुशः परस्य तुनस्तृजादेशो भवति, निर्निमित्त एव । क्रोष्ट्री, अत्र प्रागेव तृजादेशे ऋदन्तत्वाद् ङीः; क्रोष्ट्रयौ, क्रोष्ट्रय:, क्रोष्ट्रीम्, क्रोष्ट्रया, क्रोष्ट्रीभ्याम्, हे क्रोष्ट्रि ! । पञ्चभिः क्रोष्ट्रीभिः क्रीतरिति विगृह्य " मूल्यै: क्रीते" [६. ४. १५० ] इतीकरण, तस्य " अनाम्न्यद्विः प्लुप्” [६. ४. १४१.] इति लुपि “ङयादेगौणस्या०' [२. ४. ६५.] 5 इत्यादिना ङीनिवृत्तौ पञ्च क्रोष्टुभी रथैः अत्र निर्निमित्तत्वादादेशस्य ङीनिवृत्तावपि निवृत्तिर्न भवति, अत एव च “क्यङ्भानिपित्तद्धिते” [ ३. २. ५०. ] इति पुंवद्भावो न भवति, पुंवद्भावेनापि हि प्रदेश एव निवर्तनीयः, स च निमित्तत्वाश्रयणेन ङीनिवृत्तावपि निवर्तते एव ।। ६३ ।।
१३६ ]
[पा० ४. सू० १३.]
इत्याचार्य हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पादः ।। ४ ।। ग्रन्थाग्र० ५७३ ।।
सोत्कण्ठमङ्गलगनैः कचकर्षणैश्च,
वक्त्राब्जचुम्बननखक्षतकर्मभिश्च ।
संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ॥ १ ॥
श्रीमूलराजहत भूपतिभिर्विलेसुः,
प्रथमोऽध्यायः समाप्तः ॥
10
15
समाप्तोऽयं बृहद्वृत्तौ प्रथमोऽध्यायः ।। १ ।।
न्या० स० -- स्त्रियामिति - "स्त्रियां च" इत्येकयोगेऽपि "स्त्रियां च" इत्यसमस्तनिर्देशस्येदं फलम् - यत् 'स्त्रियाम्' इत्युत्तरसूत्रे याति, अन्यथा “पु स्त्रियोः" इत्येव कुर्यात् । निर्निमित्त एवेति - ननु निमित्तत्वाश्रयणे ऋकारान्तत्वाभावात् क्रोष्टुशब्दस्य कथं ङी: स्यात् ? सत्यम् - गौरादौ पाठात् ङीः स्यादेवेति ङीसिद्धिः परं निमित्त - 20 व्याख्यायां “स्त्रियां ङयाम्" इति सूत्रं कुर्यात् ।। ६३ ।।
इति प्रथमस्याध्यायस्य चतुर्थः पादः ।। ४ ।। इति प्रथमाध्यायः समाप्तः ॥