________________
[पा० ४. सू० ६२-६३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १३५
पुल्लिङ्गविषये इति समासेऽपि यदि पुल्लिङ्गविषय एव, तेन प्रियः क्रोष्टा यस्याः, यस्य वा कुलस्येत्यत्र न भवत्येव आदेशः, अत एव व्यावृत्तिः क्लीबविषये दर्शिता । कोष्टोरिति-"क्रोष्टो: क्रोष्ट पुसि” इति दृश्यम् ।। ६१ ।।
टादौ स्वरे वा ॥ १. ४. ६२ ॥
टादौ स्वरादौ परे क्रुश: परस्य तुनस्तृजादेशो वा भवति, पुंसि । 5 क्रोष्ट्रा, क्रोष्टुना; क्रोष्ट्र, क्रोष्टवे; क्रोष्टुः, क्रोष्टोः; क्रोष्ट्रोः, क्रोष्ट्वोः, क्रोष्टरि, क्रोष्टौ। 'क्रोष्टूनाम्' इत्यत्र तु नित्यत्वात् पूर्वं नामादेशे स्वराभावान्न भवति । टादाविति किम् ? क्रोष्ट्रन् । क्रोष्ट नित्यपीति कश्चित् । स्वर इति किम् ? क्रोष्टभ्याम्, क्रोष्टुभिः । पुंसीत्येव ? कृशक्रोष्टुने वनाय । यद्यपि तृप्रत्ययान्तो मृगवाची स्यात्, तथापि प्रयोगनियमो दुर्विज्ञान इत्यादेश-10 वचनम् ।। ६२ ।।
न्या० स०-टादावित्यादि। नित्यत्वादिति- *कृताकृतप्रसङ्गि न्यायेनेति । 'क्रोष्ट्र न्' इत्यपि कश्चिः । तन्मतसङ ग्रहार्थं टाया आदिष्टादिरिति व्याख्यानं कर्तव्यम् । मृगवाचीति-मृगशब्दस्यारण्यपशुवाचित्वेऽपि शृगाल एवार्थेऽत्र वृत्तिई श्या। दुर्विज्ञान इति-ननु यदा ऋदन्तेन प्रयोजनं तदा तृचि, यदा तु उदन्तेन तदा तुनि साध्यसिद्धिर्भ-15 विष्यति, किं तृजादेशविधानेन ? सत्यम् 'शेषे घुटि पुसि च नित्यम्, 'टादौ स्वरे वा' इत्येतस्माद् विषयादन्यत्रापि तृप्रत्ययः स्य त्, स्थिते तु यत्र तुनस्तृजादेशस्तत्रैव मृगवाचित्वम्, तृचि प्रत्यये तु क्रियाशब्दत्वमिति नियमसिद्धिः । तथापि प्रयोगनियम इतिअथ परो ब्रते-'क्रोष्ट्रा, क्रोष्ट्र, क्रोष्टु:, क्रोष्टुः, क्रोष्ट्रोः, क्रोष्ट्रोः' इत्याद्यर्थ तृच पानेष्यते, न च वक्तव्यम् तृचप्रत्ययान्तस्य संज्ञित्वं न प्रतीयते, भीरु-रमणीत्यादिवत् प्रतीयते एव, 'क्रोष्टुना, क्रोष्टवे' इत्यर्थं तुन् विधायिष्यते एव, अतो निरर्थक सूत्रमिदम्, न-यद्यपि20 तृप्रत्ययान्तस्यापि मृगवाचित्वमुन्मज्जति तथापि प्रयोगनियमो दुर्घटः, सूत्रं विना न ज्ञायते-कस्मिन् विषये तुन्, कस्मिन् विषये तृच्, यदा व्यञ्जनादावपि तृच् स्यात् तथा चानिष्टानि रूपाणि स्युः-'क्रोष्टभ्याम्, क्रोष्ट्रभिः; क्रोष्टषु' इति, इष्टानि तु तुन्नन्तान्येव व्यञ्जनादौ, कृते सूत्रे मृगे वाच्ये टादौ स्वर एव तृः, पूर्वेण घुटयेव तृः, अन्यत्र तुन्ने व, क्रियाशब्दस्य तु सर्वत्रास्त्येव तृच् । तथापीति-तुन्नन्तो मृगवाच्येव तृच्प्रत्ययान्तस्तु कस्मिन्25 विषये मृगवाचीति न ज्ञायते, तुनः स्थानप्रवृत्तेन तु तृचा ज्ञाप्यते यत्र घुटि टादौ स्वरादौ च तृच् तत्रैव मृगवाचित्वम्, तेन मृगे वाच्ये क्रोष्टभ्यामित्यादि न भवतीति नियमसिद्धिः ।। ६२ ।।
स्त्रियाम् ॥ १. ४. ६३ ॥ घुटीति न संबध्यते "क्रुशस्तुनस्तृच् पुंसि स्त्रियां च" इत्येकयोगा-30