________________
१३४ ]
स्वम्प; अत्याम्पि, बह्वपि ।। ८६ ।।
बृहद्वृत्ति - लघुन्याससंवलिते
[पा० ४. सू० ६०-६१.]
समासान्तविधेरनित्यत्वात् बह्वाम्पि
प्रत्यम्पि;
अभ्वादेरत्वसः सौ ॥ १. ४. ६० ॥
अत्वन्तस्यासन्तस्य च भ्वादिवजितस्य संबन्धिनः स्वरस्य शेषे सौ परे दीर्घो भवति । तु भवान् कृतवान्, गोमान् यवमान्, एतावान्; अस् - 5 अप्सराः, अङ्गिराः, चन्द्रमाः, स्थूलशिराः सुमनाः । प्रभ्वादेरिति किम् ? पिण्डं ग्रसते - पिण्डग्रः, चर्म वस्ते - चर्मवः । प्रर्थवद्ग्रहणे नानर्थकस्य इत्येव सिद्धे अभ्वादेरिति वचनम् प्रनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति इति न्यायज्ञापनार्थम्, तेनात्रापि भवति - खरणाः, खुरणाः । अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव वर्जनार्थम्, तेनेह 10 भवति - गोमन्तमिच्छति क्यन् क्विप् गोमान् एवम् - स्थूलशिराः । शेष इत्येव ? हे भवन् !, हे सुमनः ! । 'ऋतु' इति उदितकरणादृदितो न भवति - पचन्, जरन् ।। ६० ।।
न्या० स० - श्रभ्वादेरित्यादि । भवानिति - नोऽन्ते सत्यपि श्रागमोऽनुपघातेन इति न्यायाद्भवत्येव दीर्घः ।। ६० ।।
कुशस्तुनस्तृच् पुंसि ॥। १. ४. ६१ ॥
क्रुशः परो यस्तुन् तस्य शेषे घुटि परे तृजादेशो भवति, पुंसि - पुंलिङ्गविषये । क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ, अतिक्रोष्टा, प्रियक्रोष्टा । बहुव्रीहौ *प्रसिद्धं बहिरङ्गमन्तरङ्ग इति ऋदिल्लक्षणः कच् न भवति । पुंसीत्येव ? कृशक्रोष्टूनि वनानि । घुटीत्येव ? क्रोष्टून् । शेष 20 इत्येव ? हे क्रोष्टो ! । " क्रोष्टोः क्रोष्टु" इत्यकृत्वा तृज्वचनं तृस्वस्त्रादिसूत्रेणाऽऽरर्थम् ।। ६१ ।।
न्या० स० - कुशस्तुन इत्यादि - तृजादेश इति - प्रदेश इत्युक्त सकलस्यापि तुनस्तृजादेशो भवति तथा चोक्तम्
15
“एकस्यावयवस्य यो भवति स प्रोक्तो विकारो बुधैरादेशस्त्वसभूरिव प्रकटितः सर्वोपमर्दात्मकः " ॥
25