________________
[पा० ४. सू० ८७-८६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १३३
इन-हन्-पूषा-यम्णः शि-स्योः ॥ १. ४. ८७ ॥
इनन्तस्य हनादीनां च सम्बन्धिनः स्वरस्य शौ शेषे सौ च परे दी? भवति । दण्डीनि, स्रग्वीणि, वाग्ग्मीनि कुलानि, दण्डी, स्रग्वी, वाग्मी; भ्र णहानि, बहुवृत्रहाणि, भ्रूणहा, वृत्रहा; बहुपूषाणि, पूषा; स्वर्यमाणि, अर्यमा । “नि दीर्घः' [१. ४. ८.] इति सिद्धे नियमार्थं वचनम्-एषां 5 शि-स्योरेव यथा स्यात्, नान्यत्र-दण्डिनौ, दण्डिनः, दण्डिनम्; वृत्रहणौ, वृत्रहणः, वृत्रहणम् ; पूषणौ, पूषणः, पूषणम् ; अर्यमणौ, अर्यमणः, अर्यमणम् । शेष इत्येव ? हे दण्डिन् !, हे वृत्रहन् ! हे पूषन् ! हे अर्यमन् ! । *अर्थवद्ग्रहणे नानर्थकस्य इति 'प्लीहानौ, प्लीहानः, प्लीहानम्' इत्यत्र नियमो न भवति, 'वाग्ग्मिनौ वाग्ग्मिनः' इत्यादौ तु अनिनस्मन्ग्रहणा-10 न्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति इति न्यायाद् भवति ।।८७।।
न्या० स०-इन्-हनित्यादि । भ्रूणहानीति-हन्निति हन्तेः क्विबन्तस्येदं ग्रहणम्, न च हन्ते: केवलस्य क्विप् दृश्यते इति तदन्तमुदाहरति । बहुपूषाणीति-पूषार्यम्णः स्वप्रधानायां वृत्तौ शेरसंभवात् तौ समासे उपसर्जनभूतावुदाहरति-एषां शि-स्योरेवेतिएषामेव शि-स्योरिति विपरीतनियमस्तु न भवति “वश्य-ज्याय०" [ ६. १. ३. ] इत्यत्र15 युवेति “पराणि काना०" [३. ३. २०.] इत्यत्र तु पराणीति निर्देशात् । वृत्रहणावितिसंज्ञायां "पूर्वपदस्था०" [२. ३. ६४.] इत्यनेन, असंज्ञायां तु "कवर्गकस्वरवति" [ २. ३. ७६. ] इति णत्वम् । तदन्तविधिमिति-ननु अनिनस्मन् ०६ इत्यत्रातोरनिर्देशात् अनर्थकेन तदन्तविधेरप्रयोगात् अर्थवद्ग्रहण न्यायात् 'क्रियान्' इत्यत्रैव दीर्घः प्राप्नोति, न गोमानित्यादौ, सत्यम्-अतुरनर्थकोऽपि तदन्तविधि प्रयोजयति, मत्वा-20 दीनामुकारानुबन्धकरणात्, अन्यथा तेषामपि शतृवद् ऋकारमेवानुबन्धं कुर्यात् ।। ८७ ।।
अपः ॥ १. ४. ८८ ॥
अपः स्वरस्य शेषे घुटि परे दीर्घो भवति । आपः, शोभना आपो यत्रस्वाप्, स्वापम्, स्वापौ, स्वापः । 'बह्वपाः' इत्यत्र तु समासान्तेन व्यवधानान्न भवति । घुटीत्येव ? अपः पश्य । शेष इत्येव ? हे स्वप् ! ।। ८८ ।। 25
नि वा ॥ १. ४. ८६ ॥ अपः स्वरस्य नागमे सति घुटि परे वा दीर्घो भवति । स्वाम्पि,