________________
१३२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ८६.]
इत्यत्र घकारस्य दी? न भवति । घुटीत्येव ? चर्मणा, वारिणी, मधुनी। शेष इत्येव ? हे राजन् ! हे सीमन् ! ।। ८५ ।।
न्या० स०–नि दीर्घ इति । राजेति-स्यादिविधौ कर्तव्ये नलोपस्यासत्त्वात् प्रथम लुक् न । सुग्घ्नयतेः क्विबिति-स्र चो हन्ति “अचित्ते टक्" [ ५. १. ८३. ] अधिकरणे तु “स्थादिभ्यः कः" [ ५. ३. ८२. ] “गम-हन०" [ ४. २. ४४. ] इत्यलुक्, “हनो 5 ह्रो घ्नः" [ २. १. ११२. ] दीर्घविधित्व द् णेः स्थानिवद्भावो न भवति, सौ “नाम्नो नोऽनह्नः" [२. १. ६१. ] इति नलोपः, ततः “पदस्य" [ २. १. ८६. ] इति घलोपः ॥८५॥
न्स्-महतोः ॥ १. ४. ८६ ॥
सन्तस्य महच्छब्दस्य च संबन्धिनः स्वरस्य शेषे घुटि परे दी?10 भवति । श्रेयान्, श्रेयांसौ, श्रेयांसः, श्रेयांसम्, श्रेयांसौ, परमश्रेयान्, अतिश्रेयान्, प्रियश्रेयान, श्रेयांसि, यशांसि, सीषि, धनंषि, प्रियपुमांसि कुलानि; महान्, महान्तौ, महान्तः, महान्तम्, महान्तौ, परममहान्, अतिमहान्, प्रियमहान्, महान्ति । महत्साहचर्याच्छुद्धधातोः क्विबन्तस्य न भवति-सुहिंसौ, सुहिंसः, सुकंसौ, सुकंसः । नामधातोस्तु भवत्येव-श्रेयस्यति महत्यतीति15 क्विपि-श्रेयान्, महान् । घुटीत्येव ? श्रेयसः, महतः पश्य; श्रेयसी महती कुले । शेष इत्येव ? हे श्रेयन् ! , हे महन् ! ।। ८६ ।।
न्या० स०--न्स्-महतोरिति-अत्र औणादिको “द्रुहिवृहि०" [ उणा० ८८४. ] इत्यनेन कतृप्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा महच्छब्दो ग्राह्यः, यस्तु शत्रन्तस्तस्य महन्नित्येव, न त्वनेन दोर्घः, लक्षण-प्रतिपदोक्तयो:०* इति न्यायात्, यतः शतृप्रत्य-20 यान्तं महदिति रूपं लाक्षणिक कतृप्रत्ययान्तं तु प्रतिपदोक्तम्, एतच्च वत्स-ऋषभावूचतुः । सौषोति-अत्र “न्स्-महतोः" [ १. ४. ८६. ] इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये "ण-षमसत् परे०" [ २. १. ६०.] इत्यनेन षत्वमसत् । महत्साहचर्यादिति-'मह' इति शुद्धो धातुः क्विबन्तो न सम्भवति, तत्साहचर्यादन्यस्यापि शुद्धधातो: क्विबन्तस्य न भवति, नामधातुस्तु महदपि क्विबन्तः संभवति, अतोऽन्यस्यापि नामधातो: क्विबन्तस्य25 भवति, महच्छब्दस्तावन्नामत्वं न व्यभिचरति, तत्संनियोगनिर्दिष्टस्य न्सन्तस्यापि नामत्वाव्यभिचारिण एव ग्रहणम् । महती कुले इति-श्रेयसः पश्य, श्रेयसी कुले इति तु न दर्श्यते, न्सन्तत्वाभावेन द्वयङ्गविकलत्वात् ।। ८६ ।।