________________
[पा० ४. सू० ६५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १२३
हे वारे !, हे त्रपो ! । स्यादावित्येव ? तौम्बुरवं चूर्णम् । नामिन इत्येव ? काण्डे, कुण्डे । नपुंसकस्येत्येव ? मुनी, साधू । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियवारये पुंसे, प्रियमधोः पुंसः ।। ६४ ।।
न्या० स०-अनामित्यादि-अनाम् चासौ स्वरश्चानाम्स्वरः । अथाम् वर्जनात् स्वरे लब्धे स्वरग्रहणं टादावित्यधिकारनिवृत्त्यर्थम् । अन्तग्रहणं विना 'प्रियतिसृ णि' इत्यादौ 5 नस्य प्रत्ययत्वं स्यात्, तथा च प्रियतिसृणीत्यादौ निमित्ताभावे०* इति तिस्रादेशो निवर्तेत, तथा प्रत्ययाप्रत्ययो:०% इति न्यायेनास्य नकारस्य प्रत्ययस्यापि संभवे वनानीत्यादावेव दीर्घः स्यात्, न तु राजानमित्यादौ । प्रियतिसरण इति-यदि पूर्वं नागमः स्यात् तदानीं किं विनश्येत् ? यतः स्वाङ्गमव्यवधायकम् इति कृत्वा कृतेऽपि नागमे तिस्रादेशो भविष्यति, तत् कथं परत्वादित्युक्तम् ? अत्रोच्यते-यस्मान्नागमः समानीतस्तस्य10 यदि किमपि प्राप्नोति तदानीमयं न्याय उपतिष्ठते, अत्र तु 'प्रियत्रिन्' इत्यस्य न किमपि प्राप्नोति, अपि तहि अवयवस्य तिस्रादेशः, ततश्चावयवस्यावयवेन व्यवधानम्, न तु अवयवेनावयविनः, यथा-देवदत्तस्य श्मश्रु न दृष्टं हस्तेन व्यवहितत्वात्, नहि कोऽपीत्थं वदति-यदुत, देवदत्तो न दृष्टः, हस्तेन व्यवहितत्वात् । तौम्बुरवं चूर्णं तुम्बुरुणः विकारः "प्राण्योषधि०" [६. २. ३१.] इत्यादिना अण, तस्य लुप्, तस्य विकारः, विकारे।5 पूनरण , तुम्बुरुणो वक्षस्य विकारश्चूरर्णम, एकस्मिन्नणि वा "अस्वयम्भूवोऽव" [ ७. ४. ७०. ] इति, परत्वाद् भविष्यतीति न वाच्यम्, पु-स्त्रीलिङ्गयोरेव सावकाशो नपुसके तु विशेषविधानादिदं प्राप्नोति । नामिन इत्येवेति-क्लीबे नाम्यन्तस्य सत्त्वे स्यादौ विज्ञानात् कुलयोरित्यत्रत्वे कृते न नागमः, द्वयोरित्यत्रापि प्रादेशादागमः इति न्यायेन नागमः प्राप्नोति, न-परत्वादन्तरङ्गत्वाच्च "पा द्वरः" [२. १. ४१.] इत्यत्वम्, पश्चाद्,20 एत्वे कृते सकृद् इति न्यायः ।। ६४ ।।
स्वराच्छौ
॥ १. ४. ६५ ॥
जस्-शसादेशे शौ परे स्वरान्तान्नपुंसकात् परो नोऽन्तो भवति । कुण्डानि, वनानि, प्रियवृक्षाणि कुलानि, वारीणि, त्रपूणि, कतृ णि । स्वरादिति किम ? चत्वारि, अहानि, विमलदिवि, सुगणि । अत इत्येव सिद्धे25 स्वरग्रहणमुत्तरार्थम् ।। ६५ ॥
न्या० स०-स्वराच्छाविति । अत इत्येवेति-ननु इवर्णादेः “अनामस्वरे नोऽन्तः" - [ १. ४. ६४. ] इति शौ नागमः सिद्ध एव, आकारान्तस्य तु अन्त्यस्य नपुसके ह्रस्वविधानात् स्थितिरेव नास्तीति 'अतः' इत्येव युज्यते, किं स्वरग्रहणेन ? अत आहउत्तरार्थमिति ।। ६५ ।।
30