________________
१२२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६४.]
दधना, दध्ने, दध्नि, दधनि; अस्थ्ना, अस्थ्ने, अस्थिन, अस्थनि; सक्थ्ना, सक्थ्ने, सक्थिन, सक्थनि; अक्षणा, अक्षणे, अक्षिण, अक्षणि; परमदना, परमास्थ्ना, परमसक्थ्ना, परमाक्ष्णा, अतिदध्ना, अत्यस्थ्ना, अतिसक्थ्ना, प्रत्यक्ष्णा, प्रियदध्ना, समासान्तविधेरनित्यत्वात् कच् न भवति; प्रियास्थ्ना शुना, दृढसक्थ्ना शकटेन, स्थूलाणा इक्षुणा, अस्वाङ्गत्वात् “सक्थ्यक्ष्णः । स्वाङ्ग" [७. ३. १२६.] इति समासान्तो न भवति । अतिदन्या स्त्रिया, प्रियास्थ्न्यै शुन्यै, अत्रानादेशे सति नान्तत्वाद् डीः । टादावित्येव ? दधिनी, दधीनि । स्वर इत्येव ? दधिभ्याम्, दधिभिः । नपुंसकस्येत्येव ? दधातीत्येवंशीलो दधिः, दधिनामा वा, दधिना, दधये । दध्ना, अतिदध्ना कुलेनेत्यादौ विशेषविधानात् परमपि नागममनादेशो बाधते ।। ६३ ।।
10
न्या० स०-दध्यस्थीत्यादि । कच् न भवतीति-"दध्युरः-सर्पिः" [७. ३. १७२.] इत्यनेन प्रा:, "अक्षणोऽप्राण्यङ्ग" [ ७. ३. ८५. ] इत्यपि अनित्यत्वान्न । अतिदन्या स्त्रियेति-यदाऽत्र "इतोऽक्त्यर्थात्" [ २. ४. ३२. ] इत्यनेन ङीस्तदा तद्वयवधानादनेनादेशाभावे 'अतिदध्या' इत्येव भवति, यदा तु दध्यतिक्रान्तं ययेति बहुव्रीहिस्तदा "दध्युर:सर्पि:०" [७. ३. १७२.] इत्यनेन कचा भाव्य , तस्माद् दध्यतिक्रान्तयेति तत्पुरुष एव15 न्याय्यः । ननु "दध्यस्थि-सक्थ्यक्ष्णोऽन्” इति क्रियताम्, किमन्तग्रहणेन ? सत्यम्-अन्तग्रहणाभावे प्रत्ययत्वात् पदान्तत्वे सति 'दध्न्या' इत्यत्र “धुटस्तृतीयः" [ २. १. ७२. ] इति धस्य दत्वं प्राप्नोति, न च वाच्यम्-व्यपदेशः स्थानी भविष्यति, [आदेशः स्थानीव भविष्यतोति] असद्विधित्वाद् नकारान्तं न स्त्रीत्वे वर्तते, किन्तु 'दधि' इति 'अतिदन्या' इत्यत्र ङीप्रत्ययोऽपि न स्याद् , इत्येवमर्थमन्तग्रहणम् ।। ६३ ।।
20
अनामस्वरे नोऽन्तः ॥ १. ४. ६४ ॥
नाम्यन्तस्य नपुंसकस्य संबन्धिन्याम्वजिते स्यादौ स्वरे परे नोऽन्तो भवति । वारिणी २, वारिणा, वारिणे, वारिण: २, वारिणोः २, वारिणि; त्रपुणी २, त्रपुणा, त्रपुणे, त्रपुरणः २, पुणोः २, त्रपुरिण; कर्तृणी, कुले २, कर्तृणा, कर्तृणे, कर्तृणः २, कर्तृणोः २, कर्तृणि; प्रियगुरुणे, प्रिय-25 तिसृणः २, अत्र परत्वात् तिस्रादेशे सति नोऽन्तः । अनामिति किम् ? वारीणाम्, त्रपूणाम्, कतृणाम्, एषु नागमाभावे नामि सति "दी? नाम्यतिसृ०" [१. ४. १४७.] इत्यादिना दीर्घः सिद्धः । स्वरे इति किम् ?