________________
१२४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[पा० ४. सू० ६६-६६.]
ध्रुटां प्राक् ॥ १.४. ६६ ॥
स्वरात् परा या धुट्जातिस्तदन्तस्य नपुंसकस्य धुड्भ्य एव प्राक् शौ पनोऽन्तो भवति । पयांसि तिष्ठन्ति पयांसि पश्य, उदश्विन्ति, सर्पीषि, धनूंषि, प्रतिजरांसि कुलानि । धुटामिति बहुवचनं जातिपरिग्रहार्थम्, तेनकाष्ठतङ्क्षि, गोरक्ष कुलानीति सिद्धम् । स्वरादित्येव ? गोमन्ति कुलानि । 5 शावित्येव ? उदश्विता ।। ६६ ।।
"
न्या० स० - घुटामित्यादि - प्रागित्यनेन सह सम्बन्धाभावाद् धुटामित्यत्र “प्रभृत्यन्यार्थ ०” [२. २. ७५ ] इति न पञ्चमी । गोमन्ति " ऋदुदित:" [१.४.७०. ] इत्यनेन परत्वान्नागमेऽनेन नोऽन्तो न भवति ।। ६६ ।।
र्लो वा ॥ १.४. ६७ ।।
रेफ-लकाराभ्यां परा या धुडजातिस्तदन्तस्य नपुंसकस्य धुटः प्राग् नोऽन्तो वा भवति, शौ परे । बहूञ्ज, बहूजि; सूञ्जि, सूर्जि; सुवङ्गि, सुवगि । र्ल इति किम् ? काष्ठतङ्क्षि, पूर्वेण नित्यमेव । धुटामित्येव ? सुफुल्लि वनानि । शावित्येव ? बहूर्जा कुलेन ।। ६७ ।।
घ्रुटि ॥ १.४.६८ ॥
अधिकारोऽयम्, निमित्तविशेषोपादानमन्तरेणापादपरिसमाप्तेर्यत् कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ।। ६८ ।।
10
15
न्या० स०० - घुटीति । श्रधिकारोऽयमिति - 'नपुंसकस्य घुटि परतो नोऽन्तो भवति' इति विधिरेव कस्मान्न भवति ? उच्यते - नपुंसकस्य शिमन्तरेणान्यस्य घुट्त्वाभावात्, तत्र च “स्वराच्छौ” [१.४. ६५ ] इत्यादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारो-20 ऽयमिति ।। ६८ ।
अचः ॥ १.४. ६६ ॥
अञ्चतेर्धातोर्घुडन्तस्य तत्सम्बन्धिन्यसम्बन्धिनि वा घुटि परे धुटः प्राग् नोऽन्तो भवति । प्राङ्, प्रतिप्राङ्, प्राञ्चौ प्राञ्चः प्राञ्चम्, प्राञ्चि