________________
१२० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६०-६२.]
न्या० स०-अनत इत्यादि । ननु अनत इति किमर्थम् ? न च वाच्यम्-कुण्डमित्यत्रापि स्यात्, "अतः स्यमोऽम्" [ १. ४. ५७. ] इति बाधकात्, अत्रोच्यते-अनत इत्यस्याभावे "पञ्चतोऽन्यादे०" [१.४. ५४.] इत्यतोऽन्यादेरित्यागच्छेत्, न च वाच्यम्-अन्याद्यभीष्टौ हि एकमेव योगं कुर्यात्, पूर्वमेकतरवजितस्यान्यादर्ग्रहणम्, इह तु एकतरस्यापीति पृथग्योगस्य साफल्यात् । हे कर्तृ ! इत्यादौ परत्वात् प्रथम सेर्लोपे 5
प्रत्ययलोपलक्षण न्यायेन "ह्रस्वस्य गुणः" [ १. ४. ४१. ] इति गुणः कस्मान्न भवतीत्याह-लुकमकृत्वेति ॥ ५६ ।।
जरसो वा ॥ १. ४. ६० ॥
जरसन्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोलुंग् वा भवति । अतिजरः, अतिजरसं कुलं तिष्ठति पश्य वा । अन्ये तु द्वितीयैकवचनस्यैवामो योऽमा-10 देशस्तस्यैव लुब्विकल्पमिच्छन्ति, न स्यादेशस्य, तन्मते-अतिजरसं कुलं तिष्ठतीत्येव भवति । केचिज्जरसः स्यमोर्लोपं नेच्छन्ति, तन्मते-अतिजरसं तिष्ठति पश्य वेत्येव भवति ।। ६० ।।
न्या० स०–जरस इत्यादि । अन्ये विति-उत्पलादयः ।। ६० ।। नामिनो लुग वा ॥ १. ४. ६१ ॥
नाम्यन्तस्य नपुंसकस्य संबन्धिनोः स्यमोलुंग वा भवति । हे वारे !, हे त्रपो !, हे कर्तः !, हे कुल !, प्रियतिसृ कुलं तिष्ठति पश्य वा; पक्षे लुबेव हे वारि !, हे त्रपु ! , हे कर्तृ !, प्रियत्रि ! कुलं तिष्ठति पश्य वा । अमो लुकं नेच्छन्त्येके, तन्मते-प्रियत्रि कुलं पश्येत्येव भवति । नामिन इति किम् ? यद्, तद्, प्रियचतुष्कुलम् । चतुर्शब्दस्यापि लुग्विकल्पमिच्छन्त्यन्ये-20 प्रियचतसृ कुलम्, प्रियचतुष्कुलम् । लुपैव सिद्धे लुग्वचनं स्थानिवद्भावार्थम् ।। ६१ ॥
न्या० स०–नामिन इत्यादि । प्रियतिस कुलमिति-"ऋदुशनस्-पुरु०" [१.४.८४.] इत्यत्र घुट: सेर्ग्रहणादत्र क्लीबत्वेन घुट्त्वाभावे से: स्थानित्वेऽपि न डाः। नेच्छन्त्येके देवनन्द्यादयः । इच्छन्त्यन्ये उत्पलादयः ।। ६१ ।।
___25 वान्यतः पुमाष्टादौ स्वरे ॥ १. ४. ६२ ॥ यो नाम्यन्तः शब्दोऽन्यतो विशेष्यवशान्नपुंसकः स टादौ स्वरे परे पुंवद्
15