________________
[ पा० ४. सू० ५८-५६. ]
न्या० स० - श्रतः स्येत्यादि । नन्वत्राद्ग्रहरणं किमर्थम् ? न च वाच्यम् - श्रद्ग्रहणाभावे दघीत्यत्राप्यमादेशः स्यात्, यतः “अनतो लुप्" [ १. ४. ५६ ] इति सूत्रं बाधकं विद्यत इति, ननु अनत इत्यत्र पर्युदासः प्रसज्यो वा नञ् गृह्यत इति संदेहः, न च वाच्यम् - पर्युदासे हि "नामिनो लुप्" [ १. ४ ६१ ] इति सूत्रं कुर्यात्, तस्मात् प्रसज्य एवेति कुत: ? काष्ठा परं प्रकर्षमध्यापक इत्यत्र क्रियाविशेषणत्वेन प्राकारादप्यमो लुग् दृश्यते, अतोऽनत इति कर्तव्यमेव, अतः संदेहस्तदवस्थ एव, अतोऽद्ग्रहणेन ज्ञाप्यते - प्रसज्य एव गृह्यते, तथा च पय इत्यादौ लुप् सिद्धा, न त्वमादेशः । श्रत इति नपुंसकस्य विशेषणम्, अतस्तदन्तप्रतिपत्तिर्भवतीत्याह - अकारान्तस्येति । श्रम् ग्रहणमुत्तरार्थम्, तेनान्यत् पश्येति सिद्धम् ।। ५७ ।।
5
पञ्चतोऽन्यादेरनेकतरस्य दः ॥ १. ४. ५८ ॥
नपुंसकानामन्यादीनां सर्वाद्यन्तर्वर्तिनां पञ्चपरिमाणानां सम्बन्धिनोः स्यमोः स्थाने द इत्ययमादेशो भवति, एकतरशब्दं वर्जयित्वा ; अकार उच्चारणार्थः। अन्यत् तिष्ठति, अन्यत् पश्य; एवम् - प्रन्यतरत्, इतरत्; कतरत् तिष्ठति, कतरत् पश्य; एवम् कतरत्, ततरत्; कतमत् तिष्ठति, कतमत् पश्य; एवम्-यतमत्, ततमत्, एकतमत्; हे अन्यत् !, हे अन्यतरत् !, 15 हे इतरत् !, हे कतरत् !, हे कतमत् ! हे एकतमत् ! । अनेकतरस्येति किम् ? एकतरं तिष्ठति, एकतरं पश्य । पञ्चत इति किम् ? नेमं तिष्ठति, नेमं पश्य । नपुंसकस्येत्येव ? अन्यः पुरुषः, अन्या स्त्री । अन्यादिसम्बन्धिनोः स्वमोर्ग्रहणादिह न भवति - प्रियान्यम्, प्रत्यन्यं कुलम् । इह तु भवतिपरमान्यत् तिष्ठति, परमान्यत् पश्य, अनन्यत् ।। ५८ ।।
,
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ११६
न्या० स० – पञ्चत इत्यादि - पञ्च संख्या परिमाणमस्य “पञ्चद् दशद् वर्गे वा" [६. ४. १७५ ] इति डत् प्रत्ययः ।। ५८ ॥
अनतो लुप् ।। १.४. ५६ ॥
10
20
अनकारान्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोर्लुप् भवति । दधि तिष्ठति, पश्य वा, एवम् - मधु, कर्तृ, पयः, उदश्वित् । अनत इति किम् ? कुण्डं 25 तिष्ठति पश्य वा । लुकमकृत्वा लुप्करणं स्यमो: स्थानिवद्भावेन यत् कार्यं तस्य प्रतिषेधार्थम्-यत्, तत्, अत्र त्यदाद्यत्वं न भवति ।। ५६ ।।