________________
११८ ]
.
बृहद्वृत्ति-लघुन्याससंवलिते ...
[पा० ४. सू० ५५-५७.]
. नपुसकस्य शिः॥१. ४. ५५॥
नपुंसकस्य सम्बन्धिनोर्जस्-शसोः स्थाने शिर्भवति । कुण्डानि तिष्ठन्ति, कुण्डानि पश्य; एवम्-दधीनि, मधूनि, कतृणि, पयांसि, यशांसि । स्याद्यधिकारादिह न भवति-कुण्डशो ददाति । नपुंसकस्येति किम् ? वृक्षाः, वृक्षान् । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियकुण्डाः, प्रियकुण्डान् । इह तु 5 भवति-परमकुण्डानि । शकारः “शौ वा" [४. २. ६५.] इत्यादौ विशेषणार्थः ॥ ५५ ॥
न्या० स०–नपुंसकस्येत्यादि-स्त्री च पुमाँश्च स्त्रीपुसौ. "स्त्रियाः पुंसो." [७. ३. ६६. ] इति समासान्तः, न स्त्रीपुसौ नखादित्वाद् नत्रोऽदभावः, पृषोदरादित्वात् स्त्रीपुंसशब्दस्य पुंसक आदेशः ।। ५५ ॥
10
औरी ॥१. ४. ५६ ॥
नपुंसकस्य सम्बन्धी प्रौकार ईकारो भवति । कुण्डे तिष्ठतः, कुण्डे पश्य; एवम्-दधिनी, मधुनी, कर्तृणी, पयसी। तत्सम्बन्धिविज्ञानादिह न भवति-प्रियकुण्डौ पुरुषौ । इह तु भवति-परमकुण्डे ।। ५६ ।।
न्या० स०-औरीरिति-कार्य-कायिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा15 “षष्ठयान्त्यस्य" [७. ४. १०६. ] इति न्यायाद् विश्लिष्टावर्णस्यौकारस्य स्यात्, यतः अग्रो इति प्रकृतौ "ऐदौत् सन्ध्यक्षरः" [१. २. १२. ] इत्यनेन औकारो निष्पादितः ।। ५६ ॥
अतः स्यमोऽम् ॥ १. ४. ५७ ॥
अकारान्तस्य नपुंसकलिङ्गस्य सम्बन्धिनोः स्यमोरमित्ययमादेशो भवति। 20 कुण्डं तिष्ठति, कुण्डं पश्य, कीलालपम्, अतिखट्वं कुलम्; हे कुण्ड !, अत्रामादेशे अति “अदेतः स्यमोलुंक्" [१. ४. ४४.] इत्यमो लुक् । नपुंसकस्येत्येव ? वृक्षः । अत इति किम् ? दधि तिष्ठति, दधि पश्य । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियकुण्डः पुरुषः । अमोऽकारोच्चारणं जरसादेशार्थम्, तेनातिजरसं कुलं तिष्ठतीति सिद्धम् ।। ५७ ॥
25