________________
[पा० ४. सू० ५३-५४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ११७
न्या० स०-वाष्टन इत्यादि। पूर्वसूत्राद् ङरनुवृत्तिर्मा भूदिति स्यादिग्रहणम् । अथ "अष्ट प्रौर्जस्-शसोः" [१. ४. ५३.] इत्यत्र 'अष्टः' इति ज्ञापकाद् हुरनुवृत्तिर्न भविष्यति, सत्यम्-तद्धि मतान्तरसंग्रहार्थम् ।। ५२ ।।
अष्ट और्जस-शसोः ॥ १. ४. ५३ ॥
अष्ट इति कृतात्वस्याष्टन्शब्दस्य निर्देशः, अष्टाशब्दसम्बन्धिनोर्जस्- 5 शसोः स्थाने औकारादेशो भवति । अष्टौ तिष्ठन्ति, अष्टौ पश्य, परमाष्टौ, अनष्टौ। कृतात्वस्य निर्देशादिह न भवति-अष्ट तिष्ठन्ति, अष्ट पश्य, परमाष्ट, अनष्ट । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियाष्टास्तिष्ठन्ति, प्रियाष्टः पश्य । अतत्सम्बन्धिनोरपीच्छन्त्येके-प्रियाष्टौ तिष्ठन्ति, प्रियाष्टौ पश्य । केचित् तु-अष्टावाचक्षत इति णिचि क्विपि 'अष्टौ तिष्ठन्ति, अष्टौ10 पश्य' इतीच्छन्ति, तदप्यष्ट इति तन्त्रेण संगृहीतम् ।। ५३ ।।
डति-ष्णः संख्याया लप ॥ १. ४. ५४ ॥
डति-षकार-नकारान्तायाः संख्यायाः सम्बन्धिनोर्जस्-शसोलुप भवति । कति तिष्ठन्ति, कति पश्य; यति तिष्ठन्ति, यति पश्य; तति तिष्ठन्ति, तति पश्य; षट् तिष्ठन्ति, षट् पश्य; पञ्च तिष्ठन्ति, पञ्च पश्य; एवम्-सप्त,15 नव, दश; परमषट्, परमपञ्च । डति-ष्ण इति किम् ? त्रयः, चत्वारः, तावन्तः । शतानि सहस्राणीत्यत्र सन्निपातलक्षणत्वात् नान्तस्य न भवति । संख्याया इति किम् ? विपुषः, राजानः । तत्सम्बन्धिविज्ञानादिह न भवतिप्रियकतयस्तिष्ठन्ति, प्रियकतीन् पश्य; प्रियषषः; प्रियषषः; प्रियपञ्चानः, प्रियपञ्ञः । केचित् तु डत्यन्तात् कतिशब्दादेवेच्छन्ति ।। ५४ ।। 20
न्या० स०-डतिष्ण इत्यादि । सन्निपातलक्षणत्वादिति-संनिपतति कार्यमस्मिन् संनिपातो निमित्तं शिलक्षणम्, स लक्षणं चिह्न यस्य तस्य । केचित् त्विति-वामनादयः, तन्मते इदं न सिद्धयति
यति ते नाग ! शीर्षाणि, तति ते नाग ! वेदनाः । न सन्ति नाग ! शीर्षारिण, न सन्ति नाग ! वेदनाः ।। ५४ ॥
25