________________
११४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ४६-४८.]
न्या० स०-दीर्घङचाबिति । 'कुमारी ब्राह्मणः' इत्यत्र नैषां क्विबादीनां ङीस्योर्व्यवधायकत्वे स्थानित्वम्, यतः स्थान्याश्रये वृद्धयादिके कार्ये कर्तव्ये स्थानित्वम्, न तु व्यवधायकत्वे, नहि व्यवधायकत्वं कार्य नाम, अपि तु वृद्धयादीनि कार्याणीति । एवम्-'अच्योढ्वम्' इत्यादिषु सिचो लोपस्य ढत्वे कर्तव्ये न स्थानित्वम् । दत्वं चेति-सौ परे लुकः पूर्वं दत्वं प्राप्नोतीति न वाच्यम्, परे लुकि "स्रस्-ध्वंस्०" [२. १. ६८.] इति 5 सूत्रस्यासिद्धत्वात् ॥ ४५ ॥
समानादमोऽतः ॥ १. ४. ४६ ॥
समानात् परस्यामोऽकारस्य लुग भवति । वृक्षम्, खट्वाम्, मुनिम्, साधुम्, बुद्धिम्, धेनुम्, नदीम्, वधूम् । 'पितरम्' इत्यादिषु विशेषविधानात् प्रथममेवार् । समानादिति किम् ? रायम्, नावम् । अम इति किम् ? नद्यः । 10 स्यादिरिति किम् ? अचिनवम् ॥ ४६ ॥
न्या० स०-समानादित्यादि । अचिनवमिति-न च वाच्यं परत्वान्नित्यत्वाच्च गुणेन भाव्यमिति, प्राप्तौ सत्यां हि परत्वं नित्यत्वं च चिन्त्यत इति ॥ ४६ ।।
दी? नाम्यतिस-चतसृ-घः ॥ १. ४. ४७ ॥
तिसृ-चतसृ-षकार-रेफान्तजितशब्दसम्बन्धिनः पूर्वस्य समानस्यामादेशे15 नामि परे दीर्घो भवति । श्रमणानाम्, मुनीनाम्, साधूनाम्, बुद्धीनाम्, धेनूनाम्, वारीणाम्, वपूणाम्, पितृणाम्, मातृ णाम्, कतृणाम् । अतिसृचतसृ-ष इति किम् ? तिसृणाम्, चतसृणाम्, षण्णाम्, चतुर्णाम् । अष इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घो ज्ञाप्यते-पञ्चानाम्, सप्तानाम् । नामीति किम् ? चर्मणाम् । स्यादावित्येव ? दधिनाम, चर्मनाम,20 अनर्थकत्वाद् वा ॥ ४७ ।।
न्या० स०-दीर्घो नाम्येत्यादि । प्रामादेश इति स्याद्यधिकारादामादेश एव गृह्यतेऽत इदमुक्तम् । अष इति-ननु षकार-रेफाभ्यां व्यवधानादेव न भविष्यति दीर्घः, किं षवर्जनेन ? इत्याह-नकारेणेति-अन्यव्यञ्जनेन तु असम्भव इति ।। ४७ ॥
25
नुर्वा ॥ १. ४. ४८ ॥ नृशब्दसम्बन्धिनः समानस्य नामि परे दीर्घो वा भवति । नृणाम्,