________________
[पा० ४. सू० ४६-५०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ११५
नृणाम् ; अतिनृ णाम्, अतिनृणाम् ।। ४८ ।।
शसोडता सश्च नःपुसि ॥ १. ४. ४६ ॥
शसः सम्बन्धिनोऽकारेण सह समानस्य प्रधानस्थान्यासन्नो दी? भवति, तत्सन्नियोगे च पुंल्लिङ्गविषये शसः सकारस्य नकारो भवति । श्रमणान्, मुनीन्, साधून्, वातप्रमीन्, हूहून्, पितृ न्; पुंल्लिङ्गाभावे तु दीर्घत्वमेव- 5 शालाः, बुद्धीः, नदीः, धेनू, वधूः, मातृ । 'चञ्चाः खरकुटीः यष्टी: पुरुषान् पश्य' इत्यत्र चञ्चादयः शब्दाः पुरुषे वर्तमाना अपि स्त्रीलिङ्गत्वं नोज्झन्तीति नकारो न भवति, यदा तु शब्दस्य पुंल्लिङ्गत्वं तदा वस्तुनः स्त्रीत्वे नपुंसकत्वे वा नकारो भवत्येव-दारान् भ्र कुंसान् स्त्रीः पश्य, षण्ढान् पण्डकान् पश्य । दीर्घसन्नियोगविज्ञानादिह नो न भवति-एतान् गाः पश्य ।10 समानस्येत्येव ? रायः नावः पश्य । 'वनानि पश्य' इत्यत्र परत्वाच्छिरेव ।। ४६ ॥
न्या० स०--शसोऽतेत्यादि। समानस्येति-अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्वम्, तथापि प्रधानानुयायिनो व्यवहारा भवन्ति इति प्रधानस्थान्यासन्न एव दीर्घो भवति, प्रधानत्वं च षष्ठीनिर्दिष्टस्य समानस्यैवेति, प्रधानस्थान्यासन्न इति वचनाद्15 'मुनीन्' इत्यादौ शसोऽकारस्य "अवर्ण-हविसर्ग०" इति आसन्नत्वेऽप्याकारो न भवति । वातप्रमीनिति-वातं प्रमिमते “वातात् प्रमः कित्" [ उणा० ७१३. ] ईप्रत्ययः, देवनन्दिना मृगेऽपि स्त्रीलिङ्ग उक्तः ।। ४६ ।।
संख्या -साय-वेरहनस्याहन हो वा ॥ १. ४. ५० ॥
संख्यावाचिभ्यः सायशब्दाद् विशब्दाच्च परस्याह्नशब्दस्य ङौ परे20 'अहन्' इत्ययमादेशो वा भवति । द्वयोरह्नोर्भव इति विगृह्य "भवे" [६. ३. १२३.] इत्यण विषये “सर्वांशसंख्या०" [७. ३. ११८.] इत्यादिनाट् अह्नादेशश्च, ततो "द्विगोरनपत्ये०" [६. १. २४.] इत्यादिनाऽणो लुपि द्वयह्नस्तस्मिन् द्वयह्नि, द्वयहनि, द्वयते; एवम्-त्र्यह्नि, त्र्यहनि, त्र्यह; यावह्नि, यावदहनि, यावदह्न; तावदह्नि, तावदहनि, तावदह्न; सायमह्नः25 सायाह्नस्तस्मिन् सायाह्नि, सायाहनि, सायाह्न । अत एव सूत्रनिर्देशात् सायंशब्दस्य मकारलोपः, सायेत्यकारान्तो वा; विगतमहो व्यहस्तस्मिन् व्यह्नि,