________________
[पा० ४. सू० ४४-४५.] . श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ११३
प्राप्तमित्यभिप्रायः। अम्बामडतीति लिहादित्वादच् । अम्बां लातीति "प्रातो डोऽह्वावा-मः" [ ५. १. ७६. ] इति डप्रत्ययः। अम्बतेः “णक-तृचौ" [५. १. ४८.] एक आप्, “अस्याऽयत्त०" [२. ४. १११.] इति इकारः ।। ४३ ॥
अदेतः स्यमोलुक ॥ १. ४. ४४ ॥
अकारान्तादेकारान्ताच्चामन्त्र्येऽर्थे वर्तमानात् परस्य सेस्तदादेशस्यामश्च 5 लुग् भवति । हे श्रमण !, हे संयत !, अम्-हे वन !, हे धन !, हे उपकुम्भ !, हे अतिहे !, परमश्चासाविश्च हे परमे !, हे से ! । अदेत इति किम् ? हे गौः !, हे नौः !, हे परमौः ! । स्यादेशत्वेनैवामोऽपि लुचि सिद्धायां पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम् !, तेन हे कतरद् ! इत्यादौ लुग् न भवति ।। ४४ ॥
10 न्या० स०–अदेत इत्यादि । आमन्त्र्य इति वर्तते, तत्र च स्यादेश एवाम् संभवतीत्याह-स्यादेशेति । हे कतरद् इति । ननु अम्ग्रहणस्य अन्यदपि फलं कस्मान्न भवति ? यथा-कुम्भस्य समीपानि उपकुम्भमित्यत्र लुगर्थम्, नैवम्-सिसाहचर्यादेकवचनस्यामोग्रहणं न बहुवचनस्थानस्य ॥ ४४ ।।
दीघड्याब-व्यञ्जनात् सेः॥१. ४. ४५ ॥
दीर्घाभ्यां ङ्याब्भ्यां व्यञ्जनाच्च परस्य सेलुंग् भवति । ङी-गौरी, कुमारी, बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी चैत्रः, एवम्-बहुप्रेयसी, खरकुटीव खरकुटी ब्राह्मणः, कुमारीवाचरति क्विप् लुक् क्विप्-कुमारी ब्राह्मणः; आप्-खट्वा, बहुराजा; व्यञ्जन-राजा, तक्षा, हे राजन् ! । एभ्य इति किम् ? वृक्षः । याबग्रहणं किम् ? लक्ष्मीः, तन्त्रीः, ग्रामणीः, कीलालपाः ।20 दीर्घग्रहणं किम् ? निष्कौशाम्बिः, अतिखट्वः । नपुंसकेषु परत्वात् “अनतो लुप्" [१. ४. ५६.] इति लुबेव, तेन यत् कुलं तत् कुलमिति सिद्धम् । "पदस्य" [२. १. ८६.] इति सिद्धे व्यञ्जनग्रहणं राजेत्यादौ सिलोपार्थम्, अन्यथा सावपि पदत्वात् “पदस्य" [२. १. ८६.] इति च परेऽसत्त्वात् पूर्व 'नलोपे सेर्लुप्, 'उखास्रद्' इत्यादौ “संयोगस्यादौ स्कोः०" [२. १. ८८.] 25 इति लुकि दत्वं च न स्यात् ।। ४५ ।।