________________
११२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० ४. सू० ४३. ]
प्रश्लेषादिह न भवति - हे प्रियखट्व ! । प्राप इति किम् ? हे कीलालपाः ! । आमन्त्र्य इत्येव ? खट्वा ।। ४२ ।।
न्या० स० - एदाप इति । प्राश्चासावाप् चेति आकारप्रश्लेषाद् हे प्रियखट्व ! इत्यत्र " गोश्वान्ते० " [२. ४. ४६. ] इति ह्रस्वत्वे एकदेशविकृत ० इति न्यायात् प्राप्तोऽपि एकारादेशो न भवति ।। ४२ ।।
5
नित्यदिद्-विस्वराडम्बार्थस्य ह्रस्वः ॥ १. ४. ४३ ॥
नित्यं दित् - दै- दास् - दास् - दाम्लक्षण प्रादेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाबन्तानामामन्त्र्येऽर्थे वर्तमानानां सिना सह ह्रस्वान्तादेशो भवति । नित्यदित् - हे स्त्रि ! हे गौरि !, हे शार्ङ्ग रवि !, हे अस्त्रि !, हे लक्ष्मि !,
1
!, ब्रह्मबन्धु !, हे करभोरु ! हे श्वश्रु ! हे वधु !, हे कर्कन्धु !,10 अलाबु ! हे वर्षाभु !, हे पुनर्भु !, हे अतिलक्ष्मि ! ; द्विस्वराम्बार्थ - हे अम्ब!, हे अक्क !, हे अत्त !, हे अल्ल !, हे अनम्ब !, हे परमाम्ब !, प्रिय ! | नित्यदिदिति किम् ? हे वातप्रमीः !, हे हूहूः !, ग्रामणीः !, हे खलपूर्वधूटि ! | नित्यग्रहणादिह न भवति - हे श्रीः, हे ह्रीः !, हे भ्र ूः ! । कथं हे सुभ्र ु !, हे भीरु ! स्त्रीपर्यायत्वाङि कृते 15 भविष्यति । अम्बार्थानां द्विस्वरविशेषणं किम् ? हे अम्बाडे !, हे अम्बाले !, हे अम्बिके ! | आप इत्येव ? हे मातः ! ।। ४३ ।।
न्या० स० – नित्य दिदित्यादि । शृं गृणाति शृङ्गरुॠषिस्तस्यापत्यं शार्ङ्गरवी, यद्वा शृणोतीति “शिग्रु-मेरु-नमेर्वादयः " [ उ० ८११.] इति निपातनाद्रौ अन्तस्य चाङ्गदेशे शङ्खरुः, यदा तु अनेनैव शृङ्गरुरिति निपात्यते तदाऽरिण ङयां च शार्ङ्गरवी, अथवा 20 शार्ङ्गवत् रवो यस्या गौरादित्वाद् ङयां शार्ङ्गरवी । हे अम्बेति - अबुङ प्रम्बतेऽच् अम्बा । हे अक्केति - " ते - " अक कुटिलायां गतौ" इत्यस्य "निष्क - तुरुष्क ०" [ उणा ० २६. ] इत्यादि - निपातनात् कप्रत्यये । प्रतते: “पुत-पित्त०" [ उणा० २०४.] इति निपातनात् ते अत्ता । "अली भूषणादौ" अस्य "भिल्लाऽच्छ भल्ल० " [ उरणा० ४६४ ] इति निपातनाल्ले अल्ला । हे हूहूः जहातेः पृषोदरादित्वाद् ऊप्रत्यये द्विर्वचनादौ । 25 वातप्रमीः ? वातं प्रमिमीते “वातात् प्रमः कित्" [ उरणा० ७१३. ] इति ईप्रत्ययः ।
ग्रामणीः ? नायमीकारान्तो नित्यदित् किन्तु पुल्लिङ्गोऽपि । हे सुभ्रु ! इति - "केवयुभुरण्टव०" [ उणा० ७४६.] इति निपातनात् भ्राम्यतेभ्र, शोभनं भ्र भ्रमरणं यस्याः सुन शब्दात् भीरुध्वनेश्च जातित्वादुङ, परस्य विकल्पेन दित्त्वात् हे सुभ्रूः ! हे भीरो !,
7