________________
[पा० ४. सू० ४१-४२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १११
गार्गीमातृक ! । आमन्त्र्य इति किम् ? गार्गीमातृकः । सिनेति किम् ? हे गार्गीमातृकौ ! ॥ ४० ॥
न्या० स०-मातुर्मात इत्यादि । ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिः ? नह्यसौ पुत्रार्थे वर्तमानः क्वचिद् दृष्ट इत्याह-सामर्थ्यादिति-अयमर्थः केवलो न बर्तते, बहुव्रीहौ तु स्वार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव । कचोऽपवाद इति-अनन्तरानन्तरिभावे 5 षष्ठी व्याख्येया, तेन कचा व्यवधाने न स्यात् । संभावित उत्कर्षो यस्याः सकाशात् [तया, तत्पुत्रव्यपदेशयोग्यतया] तत्पुत्र इति व्यपदेशः कथनं तस्य योगः [ योग्यतया ] । अरे गार्गीमातृकेति-अज्ञातपितृकत्वेनानेकपितृकत्वेन च निन्द्यया मात्रा विगुणः पुत्रो निन्द्यत इति ।। ४० ।।
हस्वस्य गुणः ॥ १. ४. ४१ ॥
___10 ___आमन्त्र्येऽर्थे वर्तमानस्य ह्रस्वान्तस्य सिना सह श्रुतत्वाद् ह्रस्वस्यैव गुणो भवति, "आसन्नः" [७. ४. १२०.] । हे पितः !, हे मातः !, हे कर्तः !, हे स्वसः !, हे मुने !, हे साधो !, हे बुद्धे !, हे धेनो ! । सिनेत्येव ? हे कर्तृ कुल !, हे वारि ! , हे त्रपु !, अत्र परत्वात् पूर्वं से पि सेरभावान्न भवति, "नामिनो लुग् वा" [१. ४. ६१.] इति लुकि तु15 स्थानिवद्भावाद् भवत्येव-हे कर्तः कुल ! , हे वारे !, हे त्रपो ! । आमन्त्र्य इत्येव ? पिता, मुनिः, साधुः । ह्रस्वस्येति किम् ? हे श्रीः !, हे भ्र : ! । 'हे नदि !, हे वधु !' इत्यत्र तु ह्रस्वविधानसामर्थ्यात् सेरभावाच्च न भवति ।। ४१ ।।
न्या० स०-ह्रस्वस्येत्यादि । ह्रस्वस्येति अधिकृतस्य नाम्नो विशेषणाद् विशेषणे20 च तदन्तविधिसंभवादाह-ह्रस्वान्तस्येति । श्रुतत्वादिति-श्रुतो ह्रस्वो ह्रस्वान्तत्वं त्वनुमितम्, *श्रुतानुमितयोश्च श्रौतो विधिबलीयान् इति न्यायः । ह्रस्वविधानेति-उभयोः स्थाने यः इति न्यायेन यदा सिव्यपदेशस्तदा सिह स्वश्चापि, अतो विधानसामर्थ्याद्, यदा तु ह्रस्वव्यपदेशस्तदा सेरभावान्न भवति ॥ ४१ ।।
एदापः॥ १. ४. ४२॥
25
आमन्त्र्येऽर्थे वर्तमानस्याऽऽबन्तस्य सिना सह एकारान्तादेशो भवति । हे खट्वे !, हे बहुराजे !, हे बहुखट्वे विष्टर ! । आ आप इत्याकार