________________
१०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० २६.]
डितां "खितिखीतीय उर्" [१. ४. ३६.] इत्येवमादिभिविशेषविधिभिराघ्रातत्वाद् । दित्करणस्य तु प्रयोजनवत्त्वात् सामान्यमिदुदन्तमधिकृतं गम्यत इत्याह-इदुदन्ताच्छन्दादिति । 'कन्यापत्यै' इत्यादौ नपुसके तु परत्वान्नागमे कन्यापतिनः कुलस्य "वाऽन्यतः०" [ १. ४. ६२. ] इति कन्यापत्याः, कन्यापतेर्वा । अन्ये त्विति-चन्द्र न्दुगोमिप्रभृतयः। अन्यस्त्विति-क्षीरस्वामी। मुनय इति-अत्र पुस्त्रीत्वेऽपि पुस्त्वमेव विव- 5 क्षितम् ।। २८ ॥
स्त्रीदूतः ॥ १. ४. २६ ॥
नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच्च शब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेङितां · स्थाने यथासंख्यं 'दै, दास्, दास्, दाम्' इत्येते आदेशा भवन्ति । नद्यै, नद्याः, नद्याः, नद्याम् ; लक्ष्म्यै, लक्ष्म्याः , लक्ष्म्याः ,10 लक्ष्म्याम् ; कुरोरपत्यं स्त्री "दुनादि०" [६. १. ११८.] इत्यादिना व्यः, तस्य “कुरोर्वा" [६. १. १२२.] इति लुपि, “उतोऽप्राणिनश्च०" [२. ४. ७३.] इत्यादिनोङि कुरू:, कुर्वै, कुर्वाः, कुर्वाः, कुर्वाम् ; वध्वै, वध्वाः, वध्वाः, वध्वाम् ; एवम्-ब्रह्मबन्ध्वै, ब्रह्मबन्ध्वाः २, ब्रह्मबन्ध्वाम्; वर्षाभ्वै, वर्षाभ्वाः २, वर्षाभ्वाम्; अतिलक्ष्म्यै अतितन्त्र्यै अतिवध्वं स्त्रियै पुरुषाय15 वा; कुमारीमिच्छतीति क्यनन्तात् कुमारीवाचरतीति क्विबन्ताद् वा कर्तरि क्विप् कुमारी, तस्मै कुमायें ब्राह्मणाय ब्राह्मण्यै वा; खरकुटीव खरकुटी, तस्मै खरकुटय ब्राह्मणाय ब्राह्मण्य वा । स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम्, तेनेह न भवति-ग्रामण्ये खलप्वे स्त्रियै । ईदूत इति किम् ? मात्रे, दुहित्रे, बुद्धय धेनवे । 'प्रामलक्याः फलाय आमलकाय,20 अतिकुरवे, अतिकुमारये' इत्यत्रेदूत इति वर्णविधित्वेन स्थानिवद्भावाभावादीकारोकारान्तता नास्तीति न भवति । ङितामित्येव ? नद्यः, वध्वः ।। २६ ।।
न्या० स०-स्त्रीदूत इति । [ग्रामण्ये] स्त्रिय इति-ग्रामण्यादिशब्दो हि क्रियाशब्दत्वात् त्रिलिङ्गत्वात् नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः । प्रामलक्या इति-आमलकाद् उणादिप्रत्ययान्तात् ङ्याम् आमलकी वृक्षवाची ध्वनिः,25 यद्वा आमलकस्य फलस्य विकारो वृक्षः, दुसंज्ञकस्य मयटो यदा बाहुलकाल्लुप् गौरादित्वाद् डी:, तदापि आमलकीशब्दस्तरुवाची। वर्णविधित्वेनेति-ईकारोकारौ वरणों तदाश्रिता दायादयः ।। २६ ।।