________________
[पा० ४. सू० २८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १०३
सखये, नरपतये, प्रियसखेः, नरपतेः आगतं स्वं वा। बहुप्रत्ययपूर्वादपि पतिशब्दात् प्रतिषेधं केचिदिच्छन्ति-बहुपत्या, बहुपत्ये, बहुपत्युः प्रागतं स्वं वा। अन्ये तु सख्यन्तादपि प्रतिषेधं पूर्वेण रौत्वं चेच्छन्ति-बहवः सखायो यस्य तेन बहुसख्या, एवम्-बहुसख्ये, बहुसख्युरागतं स्वं वा, बहुसख्यौ निधेहि ॥ २७ ॥
न्या० स०-न ना ङीत्यादि । सखि-पतेर्ना-ङिदेता सह न यथासंख्यं "खि-तिखी-ती." [ १. ४. ३६. ] इति सूत्रे खिग्रहणात् “सख्युरितो०" [१. ४. ८३.] इति निर्देशाद् वा। सख्याविति-अत्रादेशे कृते "ङित्यदिति" [१. ४. २३.] इति प्राप्नोति, न तु पूर्वम्, यतस्तद्बाधकं "डिडौं" [ १. ४. २५. ] ततोऽपि "केवलसखि०" [१. ४. २६.] इति औत्वम्, ततः तदादेशकइति न्यायात् स्यादित्वे सति एत्वं प्राप्तं निषिद्धम् ।।२७।। 10
स्त्रिया डितां वा दै-दाम-दास्-दाम् ॥ १. ४. २८ ॥
स्त्रियाः स्त्रिलिङ्गादिदुदन्ताच्छन्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेङितां 3-ङसि-ङस्-डीनां स्थाने यथासंख्यं 'दै दास् दास् दाम्' इत्येते आदेशा वा भवन्ति, दकारो "ङित्यदिति" [१. ४. २३.] इति विशेषणार्थः । बुद्धय, बुद्धये; बुद्धयाः, बुद्धेः २ आगतं स्वं वा; बुद्धयाम्,15 बुद्धौ; धेन्वै, धेनवे; धेन्वाः, धेनोः २; धेन्वाम्, धेनौ; एवम्-मुष्टय , मुष्टये; इष्वै, इषवे; शुच्य, शुचये; पट्दै, पटवे; पत्य, पतये; जीवपत्य, जीवपतये स्त्रियै; कन्या पतिर्यस्य यस्या वा कन्यापत्य, कन्यापतये; एवम्प्रियबुद्धय, प्रियबुद्धये; प्रियधेन्वै, प्रियधेनवे; प्रियाशन्यै, प्रियाशनये; अतिशकटय, अतिशकटये स्त्रियै पुरुषाय वा; एषु समासार्थस्य पुरुषत्वेऽपि20 पत्यादिशब्दानां स्त्रीत्वमस्ति । अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति, तन्मते-प्रियबुद्धये, प्रियधेनवे पुरुषायेत्येव भवति । अन्यस्तु पुरुषस्यैव समासार्थत्वे सति इच्छति, न स्त्रियाः, तन्मते-'अतिशकट्य, प्रियधेन्वै पुरुषाय' इत्यत्रैव भवति, न तु अतिशकटय, प्रियधेनवे स्त्रिय' इत्यत्र । स्त्रिया इति किम् ? मुनये, साधवे । इदुत इत्येव ? गवे, नावे ।। २८ ।।
25
न्या० स०-स्त्रिया ङितामित्यादि । “पत्युनः" [२. ४. ४८.] इति निर्देशात् सखि-पती नानुवर्तेते, स्त्रिया इति विशेषणस्य विशेष्यसापेक्षत्वात् सखि-पतिभ्यां परेषां