________________
१०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० २६-२७.]
डिडौं ॥ १. ४. २५॥
इदुदन्तात् परो ङि: सप्तम्येकवचनं डौर्भवति, अभेदनिर्देशश्चतुर्युकवचनशङ्कानिरासार्थः, डकारोऽन्त्यस्वरादिलोपार्थः । मुनौ, साधौ, बुद्धौ, धेनौ, अतिस्त्रौ, विंशतौ । अदिदित्येव ? बुद्ध्याम्, धेन्वाम् ॥ २५ ॥
न्या० स०-डि विति । बुद्धयामिति-ननु दाम्करणसामर्थ्यादेव डोर्न स्यात्, 5 किं व्यावृत्तावदितीति दर्शनेन ? न-"ङित्यदिति" [१. ४. २३.] इत्येत्वनिषेधकत्वेन तस्य चरितार्थत्वाद् डौः स्यादिति व्यावृत्तिः सफला, यथा “इश्व स्था-दः" [ ४. ३. ४१.] इत्यत्र सिच्लोपविधायकत्वेन ह्रस्वकरणस्य चरितार्थत्वे गुणबाधकं कित्करणम्, किञ्च, यथासंख्यार्थं "स्त्रिया डिताम्" [१. ४. २८.] इत्यत्र दाम्ग्रहणं कार्यम्, अन्यथा इदं सूत्रमन्यथा उत्तरं चान्यथा कार्य स्यात्, तथा च गरीयसी रचना स्यादिति ।। २५ ॥ 10
केवलसरिख-पतेरौ ॥ १. ४. २६ ॥
केवलसखि-पतिभ्यामिदन्ताभ्यां परो ङिरौर्भवति । सख्यौ, पत्यौ । पताविति कश्चित् । इत इत्येव ? सखायमिच्छति क्यनि दीर्घत्वे सखीयतीति क्विपि यलोपे सखीः, सख्यि, एवम्-पत्यि । केवलग्रहणं किम् ? प्रियसखौ, नरपतौ, पूजितः सखा सुसखा, तस्मिन् सुसखौ; एवमतिसखौ, ईषदूनः सखा15 बहुसखा, बहुसखौ, एवम्-बहुपतौ; एषु पूर्वेण डौरेव । अन्ये तु बहुप्रत्ययपूर्वादपि पतिशब्दादौकारमेवेच्छन्ति, तन्मते-बहुपत्यौ ।। २६ ।।
न्या० स०–केवलेत्यादि । कश्चिदिति-दुर्गसिंहश्रुतपालादिः। सख्यि इति-पत्र "स्थानीवावर्णविधौ" [७. ४. १०६.] इति न्यायात् क्विप: स्थानित्वे सति “य्वोः प्वय०" [ ४. ४. १२१. ] इति यलोपः कस्मान्न भवति ? प्रसिद्धं बहिरङ्गम् इति20 न्यायात् अन्तरङ्ग विबाश्रिते कार्ये यत्वमसिद्धं द्रष्टव्यम् । अन्ये विति-शाकटायनादयः ।। २६ ॥
न ना डिदेत् ॥ १. ४. २७ ।।
केवलसखि-पतेः परस्य टावचनस्य नादेशो डिति परे एकारश्च य उक्तः स न भवति । सख्या, पत्या, सख्ये, पत्ये, सख्युः पत्युः आगतं स्वं वा, सख्यौ,25 पत्यौ । डिदिति एतो विशेषणं किम् ? जस्येद्भवत्येव-पतयः । केवलादित्येव ? प्रियसखिना, सुसखिना, बहुसखिना, साधुपतिना, बहुपतिना, प्रिय