________________
[पा० ४. सू० २२-२४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १०१
10
जस्येदोत् ॥ १. ४. २२ ॥
इदन्तस्योदन्तस्य च जसि परे यथासंख्यम् ‘एत् प्रोत्' इत्येतावन्तादेशी भवतः । मुनयः, साधवः, बुद्धयः, धेनवः, अतिस्त्रयः । जसीति किम् ? मुनिः साधुः ।। २२ ।।
डित्यदिति ॥ १. ४. २३ ॥
अदिति ङिति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतावन्तादेशौ भवतः । मुनये, साधवे, अतिस्त्रये, मुनेः, साधोः, अतिस्त्रेः आगतं स्वं वा, बुद्धये, धेनवे, बुद्धेः, धेनोः आगतं स्वं वा। ङितीति किम् ? मुनिः, साधुः । अदितीति किम् ? बुद्धय, धेन्वै, बुद्धयाः, धेन्वाः आगतं स्वं वा, बुद्धयाम्, धेन्वाम् । स्यादावित्येव ? शुची, पट्वी ।। २३ ।।
___ न्या० स०-डित्यदीति । धेनवे धीयते पयोऽस्या इति बोहुलकाद् अपादाने “धेः शित्" [उणा० ७८७.] इति नुः, कर्मणि तु क्यः स्यात् । नपुसकत्वे त्वसंभवित्वान्न दर्शितम्, तत्र हि "अनामस्वरे०" [१. ४. ६४.] इति नान्तेन भाव्यम् । बुद्धय इत्यादिनन्विकारोकारमात्रापेक्षत्वेनान्तरङ्गत्वात् पूर्वमेव एदोतौ स्याताम्, न दायाद्यादेशाः, तेषां स्त्रीत्वविशिष्टेकारोकारापेक्षत्वेन बहिरङ्गत्वात्, कृतयोरप्येदोतोरिकारोकाराभावाद्15 वर्णविधित्वाच्च स्थानित्वाभावाद् दै-दासाद्यादेशाभावात् प्रतिषेधो न युक्तः, न च तदन्तादादेशविधानाद् अवर्णविधित्वात् स्थानित्वम्, अप्रधानेऽपि वर्णविधिप्रतिषेधात्, एवं तर्हि अनवकाशत्वात् पूर्वं देप्रभृतय आदेशाः प्रवर्तन्ते पश्चाददितीति प्रतिषेधः, तथापि इदुत्संनिपातेन जायमानत्वाद् दै-दासाद्यादेशेनैव एदोबाधो भविष्यतीत्यदितीति प्रतिषेधो व्यर्थः, यद्येवं यत्वमपि न प्राप्नोति, तस्माददितीति प्रतिषेधो वर्णविधावयं न्यायो नोपतिष्ठत इति20 ज्ञापनार्थः, तेन दै-दासादिषु कृतेषु एदोतौ न भवतः, यत्वं तु भवति ।। २३ ।।
टःपुसि ना ॥ १. ४. २४ ॥
इदुदन्तात् परस्य पुंसि पुंविषयस्य टस्तृतीयैकवचनस्य स्थाने 'ना' इत्ययमादेशो भवति । मुनिना, साधुना, अतिस्त्रिणा, अमुना, अत्र “प्रागिनात्" [२. १. ४८.] इति वचनात् पूर्वमुत्वं पश्चान्नाभावः । पुंसि इति25 'किम् ? बुद्धया, धेन्वा। कथममुना कुलेन ? "अनामस्वरे नोऽन्तः" [१. ४. ६४.] इति भविष्यति ।। २४ ॥