________________
१०० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० २०-२१.]
न्या० स०–टौस्येत्यादि । एदिति तकारोऽसन्देहार्थोऽन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमेकार आदेशो भवत्याहोस्वित् इकारस्य टौसो: परयोः पूर्वे आदेशा इति सन्देहः स्यात् ॥ १६ ॥
औता
॥१. ४. २० ॥
आबन्तस्य सम्बन्धिना प्रौता प्रथमाद्वितीयाद्विवचनेनौकारेण सहाबन्त- 5 स्यैवैकारोऽन्तादेशो भवति । माले तिष्ठतः, माले पश्य; एवम्-बहुराजे २ नगयौं, कारीषगन्ध्ये कन्ये । आप इत्येव ? कीलालपौ पुरुषो। तत्सम्बन्धिविज्ञानादिह न भवति-बहुखट्वौ पुरुषौ । इह तु भवति-ईषदपरिसमाप्ते खट्वे बहुखट्वे मञ्चकौ ।। २० ।।
न्या० स०-औतेति-आबन्तस्येत्येकाऽपि षष्ठी द्विधार्थवशाद् भिद्यते-सम्बन्धि-10 तया स्थानितया चेत्याह-आबन्तस्य सम्बन्धिना औता सह आबन्तस्यैव स्थाने इति । बहखट्वौ एकदेश०* इति, “स्थानीवा०" [७. ४. १०६.] इति वा पाबन्तत्वम् ।। २० ।।
इदुतोऽस्रीदूत् ॥ १. ४. २१ ॥
स्त्रिशब्दवजितस्येदन्तस्योदन्तस्य च ौता सह यथासंख्यम् 'ईत् ऊत्' इत्येतावन्तादेशौ भवतः । मुनी तिष्ठतः, मुनी पश्य; साधू तिष्ठतः, साधू15 पश्य । इदुत इति किम् ? वृक्षौ, नद्यौ, वध्वौ। अौता इत्येव ? मुनिः, साधुः । 'सख्यौ, पत्यौ' इत्यत्र तु विधानसामर्थ्यान्न भवति । अस्त्रेरिति किम् ? अतिस्त्रियौ पुरुषौ । कथं शस्त्रीमतिक्रान्तौ अतिशस्त्री पुरुषौ ? *अर्थवद्ग्रहणे नानर्थकस्य* इति प्रतिषेधाभावात्, इदमेव चास्त्रिग्रहणं ज्ञापकम्-परेणाऽपीयादेशेनेत्कार्यं न बाध्यते इति, तेनातिस्त्रयः, सहस्त्र-20 यस्तिष्ठन्ति, अतिस्त्रये, अतिस्त्रेः, अतिस्त्रीणाम्, अतिस्त्रौ निधेहीत्यादि सिद्धम् ।। २१ ॥
न्या० स०-इदुत इत्यादि । स्त्रिवर्जनात् तत्सम्बन्धीति न सम्बध्यते । “षष्ठ्यान्त्यस्य" [७. ४. १०६.] इति निर्दिश्यमान० इति वा इदुतौ स्थानिनौ । विधानेतिअन्यथा ईकारमेव विदध्यात्। सहस्त्रयः “सहात् तुल्ययोगे" [७. ३. १५८. ]25 कनिषेधः ।। २१ ॥