________________
[पा० ४. सू० १६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ६६
भवन्ति । सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वस्याम, परमसर्वस्यै, परमसर्वस्याः, परमसर्वस्याः, परमसर्वस्याम् ; अस्यै, अस्याः, अस्याः, अस्याम्, अत्र परत्वात् पूर्वमदादेशे पश्चाड्डस् । तीयस्य विकल्पेन ङित्कार्ये सर्वादित्वाद् द्वितीयस्यै, द्वितीयायै । सर्वादेरिति किम् ? सर्वा नाम काचित्, सर्वायै । तत्सम्बन्धित्वविज्ञानादिह न भवति-प्रियसर्वाय, अतिसर्वायै; दक्षिणस्याश्च पूर्वस्याश्च 5 दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक्, तस्यै दक्षिणपूर्वाय, दक्षिणपूर्वायाः, दक्षिणपूर्वायाः, दक्षिणपूर्वायाम् ; एषु बहुव्रीह्यादेरन्यपदार्थादिप्रधानत्वात् सर्वादित्वाभावः । यद्येवं कथं दक्षिणपूर्वस्यै, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् इति ? दक्षिणा चासौ पूर्वा चेति कर्मधारये भविष्यति । अथ च बहुव्रीह्यादेः सर्वादित्वाभावे कथं 'त्वकत्पितृकः, मकत्पितृकः; द्वकि-10 पुत्रः, ककिंसब्रह्मचारी' इत्यादावक् प्रत्ययः ? उच्यते-अन्तरङ्गत्वात् पूर्वमेवाक् भविष्यति । अन्ये तु बहुव्रीहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति, तन्मते कप्प्रत्यय एव-त्वत्कपितृको मत्कपितृकः ।। १८ ।।
न्या० स०-सर्वादेर्डस् इत्यादि। 'अस्यै' इति इदम्-शब्दस्य 'पा द्वरः" [२. १. ४१.] इत्यत्वे "लुगस्या०" [२. १. ११२.] इत्यकारलोपे "प्रात्" [२. ४. १८.] 15 इत्यापि "पापो ङिताम्" [१. ४. १७.] इति यायाद्यादेशे "अनक्" [२. १. ३१.] इत्यदादेशे अनेन डस्पूर्वत्वे "डित्यन्त्य०" [२. १. ११४.] इत्यकारलोपे। अथात्र यायाद्यादेशे कृते सर्वादित्वेन तत्पृष्ठभावित्वात् डसि कृते व्यञ्जनादित्वाभावात् कथमदादेश इत्याह-परत्वादिति । प्रियसर्वाय इति-सर्वशब्दस्य प्राग्निपाते प्राप्ते "प्रियः" [३. १. ११४.] इत्यनेन प्रियस्य प्राग् निपातः। अथ बहुव्रीह्यादेरिति-परेण बहुव्रीह्या-20 देरिति प्रागभिदधे तदेव अनूदितम्, अत आदेः फलं न निरीक्ष्यम्, त्वकं पिताऽस्य, अहक पिताऽस्य, द्वको पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति । अन्ये विति-उत्पलादयः ।। १८ ।।
टौस्येत् ॥ १. ४. १६ ॥
आबन्तस्य सम्बन्धिनोष्टौसोः परयोरेकारोऽन्तादेशो भवति । खट्वया, खट्वयोः, बहुराजया, बहुराजयोः, कारीषगन्ध्यया, कारीषगन्ध्ययोः । आप25 इत्येव ? कोलालपा ब्राह्मणेन । तत्सम्बन्धिविज्ञानादिह न भवति-बहुखट्वेन पुरुषेण । इह तु भवति-ईषदपरिसमाप्तया खट्वया बहुखट्वया विष्टरेण ॥ १६ ॥