________________
१८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ४. सू० १६-१८.]
इति क्विप्प्रत्ययान्ततायां संभवेऽपि स्यादेरित्यधिकारान्निरस्यत इत्याह-षष्ठीति । ।
"संमूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शाङ्गिणि । सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम्" ॥
[शिशुपालवधे, स० १२. श्लो० १३.] माघोक्तम् ।। १५ ।। नवभ्यः पूर्वेभ्य इ स्मात् स्मिन् वा ॥ १. ४. १६ ॥ 5
पूर्वादिभ्यो नवभ्यो यथास्थानं ये 'इ स्मात् स्मिन्' आदेशा उक्तास्ते वा भवन्ति । पूर्वे, पूर्वाः; पूर्वस्मात्, पूर्वात्; पूर्वस्मिन्, पूर्वे; परे, पराः, परस्मात्, परात्; परस्मिन्, परे । नवभ्य इति किम् ? त्ये, त्यस्मात्, त्यस्मिन् । पूर्वेभ्य इति किम् ? सर्वे, सर्वस्मात्, सर्वस्मिन् । 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर' इति पूर्वादयो नव ।। १६ ॥ 10
आपो डितां ये यास् यास् याम् ॥ १. ४. १७ ॥
आबन्तसम्बन्धिनां स्यादेङितां डे-ङसि-ङस्-डीनां स्थाने यथासंख्यं 'यै यास् यास् याम्' इत्येते आदेशा भवन्ति । खट्वाय, खट्वायाः, खट्वायाः, खट्वायाम्; बहुराजायै, बहुराजायाः, बहुराजायाः, बहुराजायाम् ; कारीषगन्ध्याय, कारीषगन्ध्यायाः, कारीषगन्ध्यायाः, कारीषगन्ध्यायाम् । आप15 इति पकारः किम् ? कीलालपे। तत्सम्बन्धिविज्ञानादिह न भवति-बहुखट्वाय पुरुषाय । इह तु भवति-बहुखट्वायै विष्टराय इत्यादि ।। १७ ।।
न्या० स०–आपो ङितामित्यादि । आबन्तेति-पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽपि उत्तरसूत्रे सर्वादिग्रहणाद् इह सामान्यमवगम्यते । कारीषगन्ध्याय इति-ननु अणि अणन्तत्वात् “अणये०" [२. ४. २०.] इति, इनि तु “नुर्जातेः" [२. ४. ७२.] इति ङी:20 प्राप्नोति, नैवम्-अत्र ष्यादेशः समजनि, “अणयेकण ०" [२. ४. २०.] इति सूत्रे तु स्वरूपस्याणो ग्रहणं न ष्यादेशरूपस्य, एतत् व्याख्यानतो लभ्यते, इञस्तु इकारान्तस्य डीरुक्तः ॥ १७ ॥
सदिर्डस्पूः ॥ १. ४. १८ ॥ सर्वादेराबन्तस्य सम्बन्धिनां ङितां 'य-यास-यास्-यामाः' ते डस्पूर्वा25