________________
[पा० ४. सू० १४-१५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ९७
तन्मतसङ ग्रहार्थं तु पूर्वदिग्योगेऽपि पञ्चमी व्याख्येया ।। १३ ।।
तीयं ङित्काय वा ॥ १. ४. १४ ॥
तीय प्रत्ययान्तं शब्दरूपं ङितां 3-ङसि-ङस्-डीनां कार्ये कर्तव्ये वा सर्वादिर्भवति । द्वितीयस्मै, द्वितीयाय; द्वितीयस्यै, द्वितीयाय; द्वितीयस्मात्, द्वितीयात्; द्वितीयस्या द्वितीयाया आगतः, द्वितीयस्या द्वितीयायाः स्वम्, 5 द्वितीयस्मिन्, द्वितीये ; द्वितीयस्याम्, द्वितीयायायाम् । एवम्-तृतीयस्मै, तृतीयाय, इत्यादि । ङित्कार्ये इति किम् ? तत्रैव सर्वादित्वं यथा स्यात्, नान्यत्र, तेनाक् न भवति, तथा च कप्प्रत्यये सति स्वार्थिकप्रत्ययान्ताग्रहणात् स्मैप्रभृतयो न भवन्ति-द्वितीयकाय, तृतीयकाय, द्वितीयकाय, तृतीयकायै इत्यादि । अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न भवति-पटुजातीयाय,10 मुखतो भवो मुखतीयः, गहादिपाठादियः, मुखतीयाय; एवम्-पार्वतीयाय ।। १४ ।।
न्या० स०–तीयं डिदित्यादि। द्वितीयिकाय इति-"स्व-ज्ञा-ऽज-भस्त्रा." [ २. ४. १०८.] इति आप इः, यत्र तु इत्वं न दृश्यते तत्र “ड्यादीदूतः के" [२. ४. १०४.] इति ह्रस्वत्वम् ।। १४ ।।
15 अवर्णस्यामः साम् ॥ १. ४. १५ ॥
अवर्णान्तस्य सर्वादेः सम्बन्धिनः षष्ठीबहुवचनस्यामः स्थाने 'साम्' इत्ययमादेशो भवति । सर्वेषाम्, विश्वषाम् संनिपातलक्षण० न्यायस्यानित्यत्वादेत्वम्, सर्वासाम्, विश्वासाम्, परमसर्वेषाम्, परमसर्वासाम् । सर्वादेरित्येव ? द्वयानाम्, द्वितयानाम् । कथं "व्यथां द्वयेषामपि मेदिनीभृताम्"20 [शिशुपालवधे सर्ग-१२, श्लो० १३,] इति ? अपपाठ एषः । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियसर्वाणाम् । अवर्णस्येति किम् ? भवताम्, भवतीनाम् ।। १५ ।।
न्या० स०-अवर्णस्येत्यादि । परस्पराद्यामः सामादेशे तत्रैव सामादेश एवोच्येत, नह्यामादेशं कृत्वा साम्वचने किञ्चित् प्रयोजनमस्ति, प्रक्रियागौरवं च परिहृतं भवति,25 परोक्षादेशस्तु पाम् धातोविधीयमानः सर्वादेर्न संभवति, “कर्तु : क्विप्०" [३. ४. २५.]