________________
६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० १२-१३.]
न सर्वादिः ॥ १. ४. १२ ॥
द्वन्द्व समासे सर्वादिः सर्वादिर्न भवति, सर्वं सर्वादिकार्यं न भवतीत्यर्थः । पूर्वा-पराय, पूर्वा-परात्, पूर्वा-ऽपरे, कतर-कतमानाम्, दक्षिणोत्तर-पूर्वाणाम्, अत्र “सर्वादयोऽस्यादौ” [३. २. ६१.] इति पुंवद्भावो भवत्येव, तत्र भूतपूर्वस्यापि सर्वादेर्ग्रहणात् । कतर-कतमकाः, अत्र सर्वादित्वनिषेधादक्प्रत्य- 5 याभावे कप्प्रत्यये सति स्वार्थिकप्रत्ययान्ताग्रहणाद् "द्वन्द्व वा" [१. ४. ११.] इति जस इन भवति ।। १२ ।।
न्या० स०-न सर्वादिरिति । सर्वादिकार्यमिति-सर्वादिकार्यं कर्मतामापेदानं न प्राप्नोतीत्यर्थः, प्राप्तावपि परस्मैपदमते । कतर-कतमकाः स्वार्थिकप्रत्ययान्ताग्रहणं डतरडतमग्रहणेन ज्ञापितम, तौ च प्रकृतेरन्ते समागच्छतस्ततोऽन्योऽपि स्वाथिकः प्रत्ययो10 योऽन्ते समभ्येति तदन्तस्यैवाग्रहणम्, तेन अक्प्रत्यये सति एतत्प्रकरणविहितं कार्य भवत्येव, ततः 'सर्वके' इति सिद्धम् ।। १२ ॥
तृतीयान्तात् पूर्वा-वरं योगे ॥ १. ४. १३ ॥
'पूर्व अवर' इत्येतौ सर्वादी तृतीयान्तात् पदात् परौ योगे-सम्बन्धे सति सर्वादी न भवतः । मासेन पूर्वाय, मासपूर्वाय; संवत्सरेणावराय, संवत्सरा-15 वराय; मासेनावराः, मासावराः । तृतीयान्तादिति किम् ? ग्रामात् पूर्वस्मै, पूर्वस्मै मासेन, अवरस्मै पक्षेण । पूर्वावरमिति किम् ? मासपरस्मै । योग इति किम् ? यास्यति चैत्रो मासेन, पूर्वस्मै दीयतां कम्बलः ।। १३ ।।
न्या० स०-तृतीयान्तादित्यादि । “अश्ववडव०" [ ३. १. १३१. ] इति पूर्वशब्दस्यावरेण स्वेन समाहृतिर्भणिष्यत इति सूत्रत्वात् समाहारः, कर्मधारयो वा पूर्वावय-20 वयोगादि । योगे सम्बन्धे इति-योग एकार्थीभावो व्यपेक्षा चोभयं गृह्यते । मासपूर्वायेति"ऊनार्थ०" [ ३. १. ६७. ] इति समासः, लु या अपि तृतीयायाः “स्थानीवा०" [७. ४. १०६.] इति स्थानित्वेन तृतीयान्तत्वम्, “लुप्यय्वृल्लेनत्" [७. ४. ११२.] इति परिभाषया पूर्वस्य यत् कार्य लुपि निमित्तभूतायां तदेव निषिध्यते, अतः “स्थानीवावर्णविधौ" [७.४.१०६.] इति स्थानित्वं ततस्तुतीयान्तत्वं सिद्धम। ननू यास्यति25 चैत्रो मासेनेत्यत्र योगग्रहणं विनाऽपि “समर्थः पदविधिः' [ ७. ४. ११२. ] इति न्यायेन भविष्यति निषेधः, किं योगग्रहणेन ? उच्यते-योगग्रहणादन्यदपि सिद्धम्-अपरैः सामान्येन तृतीयान्तेन योगे प्रतिषेधः कृतः, न तृतीयान्तात्, तेषां मते पूर्वाय मासेनेत्यपि भवति,