________________
[पा० ४. सू० ११.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ९५
खण्डस्य सर्वादौ पाठात् पूर्वेण नित्यमेवेत्वं भवति-उभये; अल्पे, अल्पाः; कतिपये, कतिपयाः; परमनेमे, परमनेमा इत्यादि । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियनेमाः, अतिनेमाः । स्वार्थिकप्रत्ययान्ताग्रहणादिह न भवतिअर्धकाः । सर्वादेरित्येव ? नेमा नाम केचित् । व्यवस्थितविभाषाविज्ञानाद् अर्धादीनामपि संज्ञायां न भवति-अर्धा नाम केचित् । अत इत्येव ? नेमाः 5 स्त्रियः ।। १० ।।
न्या० स०-नेमार्धेत्यादि । तयेति-"तयि रक्षणे च" "अयि गतौ" इत्याभ्यामचि तया-ऽयौ शब्दावपि स्तः, परं व्याख्यानात् तयायौ प्रत्ययौ, तयोश्च केवलयोरसंभवात् तदन्तस्य कार्य दर्शयति-द्वितये इत्यादि । व्युत्पत्तिपक्षेऽपि तयट्साहचर्यात् अयस्य तद्धितस्य ग्रहणम्, न तु “गय-हृदय०" [उणा० ३७०.] इत्यौणादिकस्य । व्यवस्थित-10 विभाषेति-व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेण भाषत इति । अर्धा नाम केचिदिति-नामेत्यदन्तमव्ययम्, नाम नाम्ना संज्ञया, नाम प्रसिद्धार्थो वा, केचिद् वर्तन्ते, किं नाम ? अर्धा नाम, तदा क्लीबः ॥ १० ॥
द्वन्द्वे वा ॥ १. ४. ११ ॥
द्वन्द्व समासे वर्तमानस्याकारान्तस्य सर्वादेः सम्बन्धिनो जसः स्थाने15 इर्वा भवति । पूर्वोत्तरे, पूर्वोत्तराः; कतरकतमे, कतर-कतमाः; दन्तकतमे, दन्त-कतमाः; परमकतर-कतमे, परमकतर-कतमाः । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियकतर-कतमाः, वस्त्रान्तर-वसनान्तराः । उत्तरेण निषेधे प्राप्ते प्रतिप्रसवार्थो योगः ॥ ११ ॥
न्या० स०-द्वन्द्व वेति । कतरे च दशनाश्च ति कृते द्वन्द्वस्योभयपदप्राधान्येऽपि20 कतर-दशना इत्यत्र "द्वन्द्व वा" [१. ४. ११.] इति न विकल्पः, सर्वादेरित्यानन्तर्यषष्ठीविज्ञानात्, यद्वा सर्वादेरित्यावृत्त्या पञ्चमी व्याख्येया, “पञ्चम्या निर्दिष्टे परस्य" [७. ४. १०४.] इति न्यायाच्च स्यादेर्व्यवहितत्वान्न भवति । वस्त्रान्तर-वसनान्तरा इति-वस्त्रमन्तरं येषां ते वस्त्रान्तराः, सर्वादित्वादन्तरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वाद् वस्त्रस्य पूर्व निपातः, एवं वसनान्तराः, ततो वस्त्रान्तराश्च वस कृते समानार्थत्वादेकशेषः प्राप्नोति, नैवम् अत्र वसनशब्दो गृहपर्याय इति न समानार्थत्वम् ; यद्वा एकोऽन्तरशब्दो व्यवधानार्थी, अन्यस्तु विशेषार्थी । ननु चान्तरशब्दो बहुव्रीहौ वर्तते, न द्वन्द्व इति कथमदः प्रत्युदाहरणम् ? न-तदवयवको बहुव्रीहिर्द्वन्द्व इति सोऽपि द्वन्द्व इति प्रत्युदाह्रियते ॥ ११ ॥