________________
६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ८-१०.]
प्रवृत्तिनिमित्तपरित्यागात् स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवावतिष्ठते, उपसर्जनमपि जहत स्वार्थमजहद् वाऽतिक्रान्तार्थविशेषणतामापन्नम् 'अतिसर्वाय' इत्यादावतिक्रान्तार्थवृत्ति भवति, एवं बहुव्रीहावपि प्रियसर्वाय द्वन्यायेत्यादावन्यपदार्थसंक्रमाद् विशेषार्थवत्ति, वाक्ये त्वसंश्लिष्टार्थत्वात स्वार्थमात्र प्रतिपादयतो न विशेषेवस्थानमिति स्यात् सर्वादित्वम् । “उभत् पूरणे" अतो “नाम्युपान्त्य०" [५. १. ५४.] इति के उभ, 5 तत्पूर्वाद् याते: “प्रातो डोऽह्वा-वा-मः" [५. १. ७६.] इति डे निपातनात् टित्वे उभयट् । डतरेति-प्रत्ययानुकरणम् । स्व "त्रित्वरिष् संभ्रमे" अतः "क्वचि" [५. १. १७१.] इति डे, त्वत्-अस्यैव धातो: “संश्चद्-वेहत्-साक्षादादयः" [उणा० ८८२.] इति निपातनात् ।। ७ ॥
10
स्मिन् ॥ १. ४. ८॥ सर्वादेरकारान्तस्य संबन्धिनः सप्तम्येकवचनस्य डे: स्थाने स्मिन्नित्ययमादेशो भवति । सर्वस्मिन्, विश्वस्मिन् । अत इत्येव ? भवति । सर्वादेरित्येव ? सर्वो नाम कश्चित्, सर्वे; समे देशे धावति । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियसर्वे, अतिविश्व ।। ८ ।।
जस इः ॥ १.४. ६ ॥
____15
सर्वादेरकारान्तस्य सम्बन्धिनो जसः स्थाने इकार आदेशो भवति, एकवर्णोऽपि "प्रत्ययस्य" [७. ४. १०८.] इति सर्वस्य भवति । सर्वे, विश्वे, उभये, ते । अत इत्येव ? भवन्तः, सर्वाः । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियसर्वाः पुमांसः । 'सर्वाणि कुलानि' इत्यत्र तु परत्वान्नपुंसके शिरेव ।। ह॥
20
नेमा-ध-प्रथम-चरम-तया-अया-अल्पकतिपयस्य वा
॥१. ४. १०॥ नेमादीनि नामानि, तया-ऽयौ प्रत्ययौ, तेषामकारान्तानां सम्बन्धिनो जसः स्थाने इर्वा भवति, नेमस्य प्राप्ते, इतरेषामप्राप्ते विभाषा । नेमे, नेमाः; अर्धे, अर्धाः; प्रथमे, प्रथमाः; चरमे, चरमाः; द्वितये, द्वितयाः; त्रितये,25 त्रितयाः; द्वये, द्वयाः; त्रये, त्रयाः; उभयटशब्दस्य त्वयट्प्रत्ययरहितस्या