________________
[पा० ४. सू० ७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ६३
इतर, डतर, डतम, त्व, त्वत्, नेम, सम-सिमौ सर्वाथौं, पूर्व-परा-ऽवर-दक्षिणोत्तराऽपराधराणि व्यवस्थायाम्, स्वमज्ञाति-धनाख्यायाम्, अन्तरं बहिर्योगोपसंव्यानयोरपुरि, त्यद्, तद्, यद्, अदस्, इदम्, एतद्, एक, द्वि, युष्मद्, भवतु, अस्मद्, किम्, इत्यसंज्ञायां सर्वादिः । उभयडिति टकारो ड्यर्थः, उभयी दृष्टि : ।। ७ ॥
न्या० स०-सर्वादेरित्यादि । परमसर्वस्मायिति-स्याद्याक्षिप्तस्य नाम्नः सर्वादिविशेषणाद् विशेषणेन च तदन्तविधेर्भावात् “न सर्वादिः" [१. ४. १२.] इति द्वन्द्व निषेधाद् वा ग्रहणवता नाम्ना न तदन्तविधिः इत्यस्यानुपस्थानात् तदन्तं 'परमसर्वस्मै' इत्युदाहृतम्, केवलस्य व्यपदेशिवद्भावात् तदन्तत्वं दृश्यम् । विश्वस्मै इति-सर्वशब्दसाहचर्याद् विश्वशब्दस्यापि समस्तार्थस्यैव ग्रहणम्, न तु जगदर्थस्य । स्वार्थिकप्रत्ययेति-10 इत्थं वदतोऽयमाशयः-स्वार्थिकप्रत्ययोऽपि गणपाठफलमिति । सिमोऽश्वाद्यर्थोऽपि । अधराणीति-शब्दरूपापेक्षया नपुसकनिर्देशो नार्थापेक्षया, तेन स्त्री-पु-नपुसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वमिति । स्वाभिधेयेति-पूर्वादीनां शब्दानां स्वाभिधेयो दिग्-देश-काल-स्वभावोऽर्थः, तमपेक्षते यः स स्वाभिधेयापेक्षः, चोऽवधारणे, दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधेयानां यत् पूर्वादित्वं तद् नियमेन कञ्चिदवधिमपेक्ष्य संपद्यते, न त्ववधिनिरपेक्षम्, तथाहि-15 पूर्वस्य देशस्य यत् पूर्वत्वं तत् परं देशमवधिमपेक्ष्य भवति, परस्यापि यत् परत्वं तत् पूर्वदेशमपेक्ष्य भवति, तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदवधिना भाव्यम्, तत्र तस्यैवावधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकान्तिकः स नियमो व्यवस्थापरपर्यायः, तस्मिन् गम्यमाने पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यम्, न तु वाच्ये, यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्यावधिभूतस्य नियमः स कथं पूर्वादिशब्दवाच्यो 20 भविष्यति ? इति, अतस्तस्मिन्नान्तरीयकतया गम्यमाने 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर' इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिलक्षणे वर्तमानानि पूर्वादीनि सर्वादोनि भवन्तीत्युदाहरति-पूर्वस्मै इत्यादि । दक्षिणायै इति-यज्ञकर्मकृतां वेतनदानं दक्षिणा । बहिर्भावेनेति-धर्मे बहिष्ट्वे धर्मिणि च बहिर्भवे बहिः शब्दः । अन्तं रातीति "पातो डोऽह्वा-वा०" [५. १.७६.] इति डः । पुरि वर्तते25 इति-'पुरि' इति शब्दप्रधानो निर्देशः, यदा अन्तरशब्दस्य पुर्यञ्जनान्तो वाच्यो भवति तदा सर्वादित्वस्य निषेधः, यदा अकारान्त ईकारान्तो वा पुरं पुरी द्रङ्गादयश्च वाच्या भवन्ति, तदा सर्वादित्वमस्त्येव । द्वाभ्यामिति-"सर्वादेः सर्वाः" [२. २. ११६.] इत्यत्र मतद्वयाभिप्रायेण प्रथमा-द्वितीयावर्जनात् तृतीयां प्रारभ्यात्रोदाहरणानि दर्शितानि । स्वमते 'द्वौ हेतू' इत्यादि भवत्येव । सर्वविभक्त्यादय इति-आदिशब्दाद् यथायोगमेकशेष-30 । पूर्वनिपात-पूवद्भाव डद्रि-आत्-आयनिञ्-मयट-अकः प्रयोजनानि ज्ञायन्त इति । अत्र
सर्वमादीयते गृह्यतेऽभिधेयत्वेन येनेत्यन्वर्थाश्रयणात् सर्वेषां यानि नामानि तानि सर्वादीनि, संज्ञोपसर्जने च विशेषेऽवतिष्ठते, तथाहि-यदा सर्वशब्दः संज्ञात्वेन नियुज्यते तदा प्रसिद्ध