________________
६२ ]
बृहवृत्ति-लघुन्याससंवलिते
पा० ४. सू० ७.]
उत्तरस्मात्, अपरस्मै, अपरस्मात्, अधरस्मै, अधरस्मात् ; व्यवस्थाया अन्यत्र न भवति-दक्षिणाय गाथकाय देहि, प्रवीणायेत्यर्थः, दक्षिणायै द्विजाः स्पृहयन्ति । अात्माऽऽत्मीय-ज्ञाति-धनार्थवृत्तिः स्वशब्दः, आत्माऽऽत्मीययोःयत् स्वस्मै रोचते तत् स्वस्मै ददाति, यदात्मने रोचते तदात्मीयाय ददातीत्यर्थः, ज्ञाति-धनयोस्तु न भवति-स्वाय दातुं स्वाय स्पृहयति, ज्ञातये दातुं 5 धनाय स्पृहयतीत्यर्थः । बहिर्भावेन बाह्य न वा योगे उपसंव्याने उपसंवीयमाने चार्थे वर्तमानोऽन्तरशब्दः, न चेद् बहियोगेऽपि पुरि वर्तते, अन्यतरस्मै गृहाय, नगरबाह्याय चाण्डालादिगृहायेत्यर्थः, चाण्डालादिगृहयुक्ताय वा नगराभ्यन्तरगृहायेत्यर्थः, अन्तरस्मै पटाय, पटचतुष्टये तृतीयाय चतुर्थाय चेत्यर्थः, प्रथमद्वितीययोर्बहियोगेणैव सिद्धत्वात्; पुरि तु न भवति-अन्तरायै पुरे क्रुध्यति10 चाण्डालादिपुर्य इत्यर्थः; बहिर्योगोपसंव्यानादेरन्यत्र तु न भवति-अयमनयोमियोरन्तरात् तापस आयातः, मध्यादित्यर्थः ।
त्यस्मै । तस्मै । यस्मै । अमुष्मै । अस्मै । एतस्मै । एकस्मै । द्वि-युष्मद्भवत्वस्मदां स्मायादयो न संभवन्तीति सर्वविभक्त्यादयः प्रयोजनम्-[द्वौ हेतू] २, द्वाभ्यां हेतुभ्याम् ३, द्वयोर्हेत्वोः २; अज्ञाते द्व-द्वके स्त्रियौ कुले वा, द्वको पुरुषौ । 15 युवाभ्यां हेतुभ्यां ३, युवयोर्हेत्वोः २, युवकाभ्याम्, युष्मादृशः । भवद्भयां हेतुभ्याम् ३, भवतोर्हेत्वोः २, भवकान्, भवादृशः; स च भावांश्च भवन्तौ, अत्र त्यदादित्वात् परत्वाच्च भवच्छेषः, भवान् पुत्रोऽस्येति भवत्पुत्रः, अत्रसर्वादित्वात् पूर्वनिपातः; भवतोऽपत्यं भावतायनिः, अत्र त्यदादित्वादायनिञ्; भवत्याः पुत्रो भवत्पुत्रः अत्र सर्वादित्वात् पुंवद्भावः; भवन्तमञ्चतीति क्विपि,20 भवद्रयङ्, अत्र “सर्वादि-विष्वग्-देवाड्डुद्रिः क्व्यञ्चौ” [३. २. १२२.] इति डव्यागमः, उकारो नागमार्थो ङ्यर्थो दीर्घार्थश्च, भवती, भवान् । आवाभ्यां हेतुभ्याम् ३, आवयोर्हेत्वोः २, आवकाभ्याम्, अस्मादृशः । कस्मै, कस्मात् । सर्वेऽपि चामी संज्ञायां सर्वादयो न भवन्ति, तेनेह न भवति-सर्वो नाम कश्चित्, सर्वाय, सर्वात्, उत्तराय कुरवे स्पृहयति । अत इत्येव ? भवते,25 भवतः । सर्वादेरिति षष्ठीनिर्देशेन तत्सम्बन्धिविज्ञानादिह न भवति-प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय, सर्वानतिक्रान्तायातिसर्वाय, द्वावन्यावस्य तस्मै द्वयन्याय, त्र्यन्याय, प्रियपूर्वाय । सर्व, विश्व, उभ, उभयट्, अन्य, अन्यतर,