________________
[पा० ४. सू० ७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ६१
.. न्या० स०-डे-ङस्योरित्यादि । नन्वत्र 'अत्' इत्येव क्रियताम्, किं दीर्घकरणेन ? न चैवं कृते “लुगस्या०" [२. १. ११३.] इति प्राप्स्यतीति, तदा हि 'त्' इत्येवं कुर्यात्, सत्यम्-मतान्तरेऽतिजरसादित्यपि मन्यन्ते, तत्सिद्धयर्थं दीर्घकरणम्, दीर्घकरणाच्च स्वमतेऽपि सम्मतमिति बोध्यम् ।।६।।
सदिः स्मै-स्मातौ ॥ १. ४. ७ ॥
सर्वादेरकारान्तस्य सम्बन्धिनोर्डे-डस्योर्यथासंख्यं 'स्मै स्मात्' इत्येतावादेशौ भवतः । सर्वस्मै, परमसर्वस्मै, सर्वस्मात्, परमसर्वस्मात्, असर्वस्मै, असर्वस्मात्, किंसर्वस्मै, किंसर्वस्मात्, एवम्-विश्वस्मै, विश्वस्मात् । उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात् स्मैप्रभृतयो न संभवन्ति, गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः-उभौ हेतू १, उभौ हेतू २, उभाभ्यां हेतुभ्याम् ३, उभाभ्यां10 हेतुभ्याम् ४, उभाभ्यां हेतुभ्याम् ५, उभयोर्हेत्वोः ६, उभयोर्हेत्वोः ७ इति । उभयस्मै, उभयस्मात् । अन्यस्मै, अन्यस्मात् । अन्यतरस्मै, अन्यतरस्मात्, डतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं डतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्यर्थम्-अन्यतमाय, अन्यतमं वस्त्रम्, अन्यतमे; एके त्वाहुः-'नायं डतरप्रत्ययान्तोऽन्यतरशब्दः, किन्तु अव्युत्पन्नस्तरोत्तरपदस्तरबन्तो वा, तन्मते-15 डतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम्-अन्यतमस्मिन् । इतरस्मै, इतरस्मात् । डतर-डतमौ प्रत्ययौ, तयोः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्थं च, कतरस्मै, कतमस्मै, यतरस्मै, यतमस्मै, ततरस्मै, ततमस्मै, एकतरस्मै, एकतमस्मै; इह न भवति-सर्वतमाय, सर्वतमात् । त्वशब्दोऽन्यार्थः, त्वस्मै, त्वस्मात् ।20 त्वच्छब्दः समुच्चयपर्यायः, तस्य स्मायादयो न संभवन्तीति हेत्वर्थयोगे सर्वविभक्तित्वमक्प्रत्ययश्च प्रयोजनम्-त्वतं हेतुम्, त्वता हेतुना वसति; अज्ञातात् त्वतस्त्वकतः । नेमशब्दोऽर्धार्थः, नेमस्मै, नेमस्मात् । सम-सिमौ सर्वाथी, समस्मै, समस्मात्, सिमस्मै, सिमस्मात्, सर्वार्थत्वाभावे न भवति-समाय देशाय, समाद् देशाद् धावति । स्वाभिधेयापेक्षे चावधिनियमे व्यवस्थापर-25 • पर्याये गम्यमाने पूर्व-परा-ऽवरदक्षिणोत्तरा-ऽपरा-ऽधराणि, पूर्वस्मै, पूर्वस्मात्, परस्मै, परस्मात्, अवरस्मै, अवरस्मात्, दक्षिणस्मै, दक्षिणस्मात्, उत्तरस्मै,