________________
१० ]
बृहद्वृत्ति-लघुन्याससंवलिते .
[पा० ४. सू० ४-६.]
इमकैः, अमुकैः । अक्येवेति किम् ? एभिः, अमीभिः । पूर्वेणैव सिद्धे निय- । मार्थमिदम् । एवकारस्त्विष्टावधारणार्थः ।। ३ ।।
न्या० स०-इदमदस इत्यादि। इष्टावधारणार्थ इति-तेन प्रत्ययनियमो न भवति, तदभावे च तक: विश्वकैरित्यादि सिद्धम् ।। ३ ।।
एद् बहुरभोसि ॥ १. ४. ४ ॥
बह्वर्थविषये सकारादौ भकारादावोसि च स्यादौ परेऽकारस्यैकारादेशो भवति । एषु, एषाम्, अमीषाम्, सर्वेषाम्, एभिः, एभ्यः, वृक्षेभ्यः, श्रमणयोः, संयतयोः । बह्विति किम् ? वृक्षस्य, वृक्षाभ्याम् । स्भोसीति किम् ? सर्वे । अत इत्येव ? साधुषु, साधुभ्यः, खट्वासु खट्वाभ्यः, अग्न्योः , दृषदोः ।। ४ ॥ टा-सोरिन्-स्यौ ॥१. ४. ५॥
10
अकारात् परयोष्टा-ङसोः स्याद्योः स्थाने यथासंख्यम् ‘इन स्य' इत्येतावादेशौ भवतः । वृक्षेण, अतिजरेण, वृक्षस्य, अतिजरस्य । अत इत्येव ? अतिजरसा, अतिजरसः, अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृते अकारान्तत्वाभावः । अन्ये तु प्रागेवेनादेशम् *संनिपातलक्षण-न्यायस्यानित्यत्वाश्रयणात् पश्चाज्जरसादेशं चेच्छन्तोऽतिजरसिनेत्यपि मन्यन्ते ।। ५ ।। 15
न्या० स०-टा-ङसोरित्यादि । अन्ये विति-यदि हि 'अतिजरसिना' इत्येतत् सूत्रकारस्य साधुत्वेनाभिमतं स्यात् तदा 'टा' इत्येतस्य नकारादेशत्वमेव कुर्यात्, तत्रापि ह्य त्वे कृते वृक्षणेत्यादि सिद्धयत्येव, कथमेत्वमिति चेत् ? “एद् बहुस्भोसि" [ १. ४. ४. ] इत्यत्र टावचनप्रक्षेपात्, अत्र जयादित्यः-यथा तु भाष्यं तथा नैतल्लक्ष्यते ॥ ५ ॥
डे-स्योर्याती॥१. ४. ६ ॥
20
प्रकारात् परयोः 'डे ङसि' इत्येतयोर्यथासंख्यं 'य पात्' इत्येतावादेशी भवतः । वृक्षाय, वृक्षात्, अतिजराय, अतिजरात् । अत इत्येव ? अतिजरसे, अतिजरसः । केचित् तु प्रागेवाऽऽदादेशे जरसादेशमिच्छन्तोऽतिजरसादित्यपि मन्यन्ते ॥ ६ ॥