________________
[पा० ४. सू० २-३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ८६
[२. १. १.] इत्यादिविहितस्य स्यादेर्ग्रहणं भविष्यति, यतस्तत्र तस्य ग्रहणेऽपि न किमपि फलम्, अन्यच्च स्यादिग्रहणे शुचिशब्दात् ड्यां प्रत्ययत्वात् “ङित्यदिति" [१. ४. २३.] इत्येवं प्राप्त निषिध्यते । किञ्च, अत्र स्यादिग्रहणाभावे 'वन्यः' इत्यत्रापि "अवर्णवर्णस्य" [७. ४. ६८.] इत्येतद् बाधित्वाऽऽकारः स्यात् । यद्वा, इत्थं चालना-प्रत्ययाप्रत्यययो:०% इति न्यायेन सिद्धे स्यादिग्रहणं "ण-षमसत्०" [ २. १. ६०.] इति 5 सूत्रेऽसदिति कार्यार्थम्, तेन 'राजभ्याम्' इति सिद्धम् । इदं च न वक्तव्यम्, यत् वने साधुः "तत्र साधौ" [७. १. १५.] इति ये प्रत्यये आकारः प्राप्नोतीति स्यादिग्रहणम, यतो जस्-भ्याम्साहचर्यात् यकारोऽपि स्यादेरेव लप्स्यते किं स्यादिग्रहणेन ? सत्यम्-तहि अधिकारार्थम्, तेन शुची स्त्रीत्यादौ ङीप्रत्यये "ङित्यदिति" [ १. ४. २३. ] इत्येकारो न भवतीति । वृक्षा इति-अत्र जसि अपवादत्वात् समानदीर्घत्वबाधकस्य "लुगस्यादेत्यपदे"10 | २.१.११३. | इत्यस्य बाधकोऽयमाकारः। आभ्यामिति-इदम्शब्दस्य, प्रतते "क्वचित्" [ ५. १. १७१. ] इति डे अप्रकृतेर्वा सिद्धम् । श्रमणाभ्यामिति-स्यादेः पूर्वमेकपदत्वाभावात् कथम् ? "रघुवर्ण०" [२. ३. ६३.] इति णत्वं श्रमणप्रकृतेः, उच्यते* भाविनि भूतवत्' इति न्यायाद् भवति । श्रमणायेति-अकारसंनिपातेन विधीयमानो यकारस्तद्विघाताय कथं प्रभवतीति न वाच्यम्, यग्रहणवैयर्थ्यप्रसङ्गात् ।। १॥ 15
भिस ऐस् ॥ १. ४. २ ॥
अकारात् परस्य स्यादेभिसः स्थाने 'ऐस्' इत्ययमादेशो भवति । श्रमणैः, संयतः, अतिजरैः । एसादेशेनैव सिद्धे ऐस्करणं *संनिपातलक्षण* न्यायस्यानित्यत्वज्ञापनार्थम्, तेनातिजरसरित्यपि सिद्धम् । अन्ये तु अतिजरैरित्येवेच्छन्ति । अत इत्येव ? मुनिभिः, शालाभिः, दृषद्भिः । स्यादेरित्येव ? 20 चैत्रभिस्सा, प्रोदनभिस्सटा ।। २ ।।
न्या० स०-भिस ऐसिति । एसादेशेनैवेति-एसादेशे कृते “लुगस्या." [ २. १. ११३. ] इति तु न वाच्यम्, विधानसामर्थ्यात्, अन्यथा यदि देवेरित्यभीष्टं स्यात् तदा इसिति कुर्यात् । अतिजरसैरिति-एकदेशविकृतस्यानन्यत्वात् कृतह्रस्वोऽपि जराशब्द एवेति । भिस्सटेति-"प्सांक् भक्षणे" इत्यस्याभिपूर्वस्याभिप्सायते इति “उपसर्गादातः"25 [५. ३. ११०.] इति अङि पृषोदरादित्वादभेरकारलोपे पकारस्य सकारे आपि लक्ष्यानुरोधाद् विकल्पेन टागमे भिस्सा, भिस्सटा ॥ २ ॥
इदमदसोऽक्येव ॥ १. ४. ३ ॥ 'इदम् अदस्' इत्येतयोरक्येव सत्यकारात् परस्य भिस ऐस् भवति ।