________________
८६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
ईट्टे । तवर्गस्य चवर्गे कृते " च ज क - गम्" [२. २. ८६. ] इति न भवति, * प्रसिद्धं बहिरङ्गमन्तरङ्ग इति, तत्र च प्रत्ययाधिकाराद् 'मज्जति' इत्यादावपि न भवति एयमुत्तरत्रापि शकारस्य षत्वमपि न भवति ।। ६० ।।
[पा० ३. सू० ६१.]
2
न्या० स० – तवर्गस्येत्यादि । स्थानित्वाऽऽशङ्क त्यादि - श्रयमर्थः - योगग्रहणं विना सहार्थतृतीयायाम् “प्रवर्णस्येवर्णादिना ०" [१. २. ६. ] इत्यादिवत् श्ववर्गादेरपि स्थानि- 5 त्वाशङ्का, परदिग्योगपञ्चम्यां तु " पञ्चम्या निर्दिष्टे परस्य" [ ७. ४. १०४.] इति न्यायात् परस्यैव तवर्गस्य स्यात्, न पूर्वस्येति योगग्रहरणम् । ननु तवर्गस्य कार्यित्वात् तेन च विशिष्टवर्णसमुदायस्याभिधानात् । 'तच् शेते' इत्यादिषु एकैकस्य तवर्गशब्दादप्रतीती कथं कार्यित्वमिति ? सत्यम् - समुदायैकदेशस्यापि तदात्मकत्वाद् " ग्रामो दग्ध:' इतिवत् समुदायशब्देनाभिधानात् दस्यापि तवर्गत्वे सति दकाररूपतवर्गस्यानेन जकारः यद्वा, 10 यथा- ग्रामे वसति, गृहे वसतीत्यादौ ग्रामाद्येकदेशादेरपि ग्रामादिशब्दादभिधानम्, नहि देवदत्तादिरेवमभिधीयमानो ग्रामं गृहं वा व्याप्य वसति, किन्तु तदेकदेशे, तत्र स एवैकदेशो ग्रामो गृहं चोच्यते, तद्वदत्रापीत्यदोषः । तच् छादयतीति "छदरण, संवरणे” इत्यस्य “छदरण अपवारणे” इत्यस्य वा युजादे: स्वार्थरिणजन्तस्य रूपम् । तज् झाषयतीतिप्रयोक्तव्यापारे रिणग्, “हन्त्यर्थाश्व" इति णिजन्तस्य वा रूपम् । राज्ञ इति - शसि ङौ ङसि 15 च रूपम्, एवम्-मज्ज्ञ इत्यपि । पूर्वेण शकारेणेति - "न शात् " [१. ३. ६२.] इत्यनेन निषेधो वक्ष्यते । परेण षकारेणेति - "षि तवर्गस्य" [ १. ३. ६४ ] इत्यनेन । अन्वित्यधिकारात् 'अड्डिडिषति' इत्यत्र द्वित्वे कृते पश्चात् टवर्गः, अन्यथा प्रडिड्डिषतीत्यनिष्टं रूपं स्यात्, एवम्- 'अट्टिटिषते' इत्याद्यपि । एवमुत्तरसूत्रेऽपि "च जः क - गम्” [ २. १. ८६. ] इति न भवतीति तच् शेते, तच् चरतीत्यादौ उभयाश्रितत्वाच्चत्वं बहिरङ्ग पदमात्रा - 20 श्रितत्वात् कत्वमन्तरङ्गमिति । शकारस्य षत्वमपीति - 'वृश्वति' इत्यादी "सस्य श-षी" [ १.३.६१ ] इति कृतस्य शकारस्य " यज-सृज - मृज० " [ २. १८७ ] इत्यनेन धुडाश्रितं षत्वं प्रत्ययाभावान्न भवतीत्यर्थः ।। ६० ।।
सस्य श षौ ॥ १. ३. ६१ ॥
सकारस्य स्थाने श्ववर्ग-ष्टवर्गाभ्यां योगे यथासंख्यं शकार - षकारावादेशौ25 भवतः । चवर्गेण - श्च्योतति, वृश्चति, मज्जति, लज्जते, भृज्जति, सज्जति; षकारेण - सर्पिष्षु, धनुष्षु, दोष्षु, अत्र सो रुत्वं तस्य सत्वं, सुपः षत्वं ततोऽनेन पूर्वसस्य षत्वम्; टवर्गेण - पापषि, बंभषि ।। ६१ ।।
न्या० स० – सस्येत्यादि । ननु "वृश्चति" इत्यादौ भवति इति भरणनात् "नाम्यन्तस्था०" [२. ३. १५.
]
दन्त्यापदिष्टं कार्यं तालव्येऽपि
इति षत्वं कथं न भवतीति ?30