________________
[ पा० ३. सू० ६२-६५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
उच्यते - पाठकाले यो दन्त्यसकारस्तस्य कृतत्वाभावादिति । 'सर्पिष्षु' इत्यादिषु पदान्तत्वाद् “नाम्यन्तस्था०” [२. ३. १५.] इत्यादिना षत्वं न भवति प्रकृतेः सस्य ।। ६१ ।।
न शात् ॥ १.३. ६२ ।।
शकारात् परस्य तवर्गस्य स्थाने यदुक्तं तन्न भवति, किमुक्तम् ? चवर्गः | अश्नाति ; अश्नुते, विश्न:, प्रश्नः ।। ६२ ।।
न्या० स० - न शादिति । तवर्गस्येति-असंभवात् सस्येति न व्याख्यातम् ।। ६२ ।। पदान्ताट्टवर्गादनाम् - नगरीनवते ॥ १. ३. ६३ ॥
[ ८७
5
,
पदस्यान्ते वर्तमानाट्टवर्गात् परस्य नाम्नगरी - नवतिसम्बन्धिवर्जितस्य तवर्गस्य सकारस्य च यदुक्तं तन्न भवति, किमुक्तम् ? टवर्ग - षकारौ । षट्तयम्, मधुलिट् तरति मधुलिट् थुडति मधुलिड् दुनोति, मधुलिड् धुनोति, 10 षण नयाः; मधुलिट् सीदति, मधुलिट् साये, मधुलिट् स्यात् मधुलिट्सु । टवर्गादिति किम् ? चतुष्टयम्, सर्पिष्ट्वम् । पदान्तादिति किम् ? ईट्टे अनाम्-नगरी-नवतेरिति किम् ? षण्णाम्, षण्णगरी, षण्णवतिः । नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव - षड्नाम ।। ६३ ।।
न्या० स० - पदान्तादित्यादि । तवर्गस्येति - उत्तरत्र तवर्गस्येति भरणनात् तवर्गस्य 15 सस्य चेति लभ्यतेऽत्र । नामित्यामादेशस्येति - अन् प्रत्ययान्तस्य घञन्तस्य च नमतेरवयव एक:, अपरश्चामादेश:, अत्र य आमादेशो नाम् तस्यैवार्थवत्त्वात् प्रत्ययाप्रत्यययोः प्रत्ययस्यैव इति न्यायाद्वा ग्रहणमित्याह - षड्नाम । नामशब्दो नकारान्तोऽकारान्तो वाऽव्यय इति ।। ६३ ।।
षि तवर्गस्य ॥ १. ३. ६४ ॥
पदान्ते वर्तमानस्य तवर्गस्य स्थाने षकारे परे यदुक्तं तन्न भवति, किमुक्तम् ? टवर्गः । तीर्थकृत् षोडशः शान्तिः, भवान् षण्डः । षीति किम् ? तट्टीकते । तवर्गस्येति किम् ? सर्पिष्षु ।। ६४ ॥
20
लि लौ । १.३. ६५ ॥
पदान्ते वर्तमानस्य तवर्गस्य स्थाने लकारे परे स्थान्यासन्नावनुनासिका-25