________________
८४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ५६-५८.]
व्यत्यये लुग् वा ॥ १. ३. ५६ ॥
शिटः परोऽघोष इति व्यत्ययः, तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग् वा भवति । चक्षु श्चोतति, पक्षे-चक्षुश्श्चोतति, चक्षुः श्वोतति ; क ष्ठीवति, कष्ष्ठीवति, कः ष्ठीवति; चेत स्खलति, चेतस्स्खलति, चेतः स्खलति; चक्षु स्पन्दते, चक्षस्स्पन्दते, चक्षुः स्पन्दते; पुन स्पन्दते, पुनस्स्पन्दते, 5 पुनः स्पन्दते ।। ५६ ॥
अरोः सुपि सः ॥ १. ३. ५७ ॥
रुवजितस्य रेफस्य स्थाने सुपि परे रेफ एव भवति, कार्यान्तरबाधनार्थः । गीर्ष, धूर्षु, वार्ष, द्वाए । विसर्ग-सकारौ न भवतः । अरोरिति किम् ? पयःसु, पयस्सु; अहःसु, अहस्सु। सुपीति किम् ? गीः, धूः । र इत्येव ? 10 महत्सु ।। ५७ ।।
___ न्या० स०-अरोरित्यादि । विसर्गेति-अन्तरङ्गत्वात् "श-ष-से०" [ १. ३. ६. ] इति षत्वं प्राप्नोति, अतः सकार इत्युक्तम् । ननु ‘पयःसु' इत्यादिषु “सो रुः" [१. ३. ५०.] इति कृते अन्तस्थाद्वारेण रेफात् परः षकारः कथं न भवति ? सत्यम्नित्यत्वाद् “रः पदान्ते०" [ १. ३. ५३. ] इत्यादयो भवन्ति । रुवर्जनाल्लाक्षणिकन्यायो15 निरनुबन्धन्यायश्चानित्यस्तेन “रः कखपफयो:०" [ १. ३. ५३. ] इत्यादौ लाक्षणिकस्यापि भवति ॥ ५७ ।।
वाहर्पत्यादयः ॥ १. ३. ५८ ॥
अहर्पत्यादयः शब्दा यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा निपात्यन्ते । अहर्पतिः, अहःपतिः, अह) (पतिः; गीपतिः, गी:पतिः, गी) (पतिः; 20 धूर्पतिः, धूःपतिः, धू) (पतिः, एषु पक्षे विसर्गाभावो निपात्यते; हे प्रचेता राजन् ! , हे प्रचेतो राजन् ! अत्र पक्षे उत्वाभावो निपात्यते । बहुवचनमाकृतिगणार्थम् ।। ५८ ।।
न्या० स०-वाहर्पतीत्यादि । निपातनात् पदान्ताधिकारो निवर्तते, तेनोत्तरसूत्रे न याति, तथा च रूषीरमित्यादि सिद्धम् । गोपतिरिति-अत्र क्षीरस्वामिना भ्रातुष्पुत्रा-25 दित्वात् षत्वमिष्यते । प्रचेता राजनिति संबोधने विशेषज्ञापनाय, संबोधनादन्यत्राप्युदा