________________
[पा० ३. सू० ५४-५५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ८३
ऽघोषे च । वृक्षः, प्लक्षः, प्रातः, पुनः, अग्निः अत्र, पटुः इह; अघोषे-कः करोति, कः खनति, पुनः पचति, पुनः फलति, कः शेते, कः षण्डे, कः साधुः । कश्चरति, कष्टीकते, कस्तरतीत्यादिषु तु शादय एवापवादत्वाद् भवन्ति । पदान्त इति किम् ? इर्ते, अर्कः, शूर्पः, सर्पः । कथं नृपतेरपत्यं नार्पत्यः, नृकुटयां भवो नार्कुटः, तवरिः, प्रार्च्छतीत्यादि ? प्रसिद्धं बहिरङ्ग- 5 मन्तरङ्ग इति वृद्धयरारादेशाश्रयस्य रेफस्यासिद्धत्वाद् विसर्गो न भवति, एवम्-क-) (पावपि । अन्वित्यधिकाराद् 'गीः, धूः, सजूःषु, आशीःषु' इत्यादिषु दीर्घत्वे कृते पश्चाद् विसर्गः, अन्यथा हि पूर्वं विसर्गे कृते इरुरोरभवाद् दी? न स्यात् ।। ५३ ।।
न्या० स०-रः पदान्त इत्यादि। विसर्गः शब्दपुरोवति बिन्दुद्वयं रूढः ।10 तयोरित्यत्रैकाऽपि सप्तम्यर्थवशाद् द्विधा भिद्यते-एका वैषयिकेऽधिकरणेऽपरा त्वौपश्लेषिक इति । असिद्धमिति-प्रत्ययाश्रितत्वेन बहुस्थान्याश्रितत्वेन च बहिरङ्गता, वर्णमात्राश्रितत्वेन त्वन्तरङ्गता, संपदादेशः पदव इति च वृद्धयादौ कृते रेफस्य पदान्तत्वमिति ।। ५३ ॥
20
ख्यागि ।। १. ३. ५४ ॥
____15 पदान्ते वर्तमानस्य रेफस्य ख्यागि परे विसर्ग एव भवति । कः ख्यातः, नमः ख्यात्रे। पूर्वेणैव सिद्धे नियमार्थमिदम्, तेन जिह्वामूलीयो न भवति ।। ५४ ॥
न्या० स०-ख्यागीति । ख्याग्येव विसर्गनियमात् “ख्यांक प्रकथने” इत्यस्मिन् जिह्वामूलीयोऽपि ।। ५४ ॥
शिटयघोषात् ॥ १. ३. ५५ ॥
अघोषात् परे शिटि परतः पदान्ते वर्तमानस्य रेफस्य विसर्ग एव भवति । परुषः त्सरुकः, सर्पिः प्साति, सपिः प्सातम्, वासः क्षौमम्, अद्भिः प्सातम् । इदमपि नियमार्थम्, तेन सत्व-षत्व-क-) (पा न भवन्ति ।।५।।
न्या० स०-शिटयेत्यादि । अघोषात् परस्य पदान्ते रेफस्यासम्भवाद् अघोषा-25 दिति शिटीत्यस्य विशेषणमित्याह–अघोषात परे शिटीति ॥ ५५ ॥